________________
२२०
आचार्य श्रीवर्धमानसूरिचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
__ अन्यच्च-बुद्धयाप्रज्ञया कार्याणिप्रयोजनानिसाध्यन्ते विधीयन्ते, सातुसा पुनर्बुद्धि: क्रुद्धस्य कोपवतो नश्यत्यपयाति तस्मात्कारणात्क्षमा समर्था क्षमैव शान्तिरेव सर्वकार्यप्रसाधिका समस्तप्रयोजनविधायिकेत्यर्थः ॥१७९॥
दर्शित: कोपविपाकः, अथ मानविपाकं दर्शयन्नाह-न नमस्यति देवोभ्यो देवानपि न नमति वरिवस्यति नो गुरुन् गुरुनपि न पर्युपास्ते, अहङ्कारग्रहग्रस्तो मानग्रहगृहीत: पितृनपि जनकानपि न मन्यते न गणयति ॥१८०॥
'अनम्र: पर्वताकार इति श्लोक: सुगम:
अहं दातेत्ययमपि सुगमः, नवरं स्वमानीति स्वमात्मानं मन्यते इत्येवंशील: स्वमानी मन्यते बुद्धयते स्वयमात्मना, अमानमानमप्रमाणाहंकारमारूढ आश्रितस्तुणतुल्यं तृणसदृशंमन्यते गणयति जगद् भुवनं, मेरोरपि सुरगिरेरप्यधिकमर्गलं मूढो मोहवान् पश्यति वीक्षते आत्मानं स्वमात्मना स्वयमेव ॥१८१-१८२।।
मानस्य दुष्टतां प्रकटयन्नाह-अहो इत्याश्चर्ये मानस्याहङ्कारस्य दौरात्म्यं दुष्टता, येन कारणेन न प्राप्तो न लब्धवान् केवलं केवलाख्यं ज्ञानं सुनन्दानन्दनो बाहुबलि: साधुर्यतिरिति यावन्मानं यावदहङ्कारं न मुक्तवान्नत्यक्तवानिति ॥१८३।।
उक्तो मानविपाकः, इदानीं मायाविनां स्वरूपमाह-अद्विजिह्वा एकजिह्वा: फणभृत: सर्पा बहि: श्लक्ष्णा बहि:सुकुमारा भयङ्करास्त्रासजनका अन्तर्विषभृतो मध्ये विषधारिणो दूर दूरादेव वर्जनीया: परिहरणीयाः शठा मायाविनो जना लोका: ॥१८४॥ शठसङ्गतिकारिणामिहैव दोषमाह-शठानि यस्य मित्राणीतिश्लोक: सुगमः ।।१८५।।
किञ्च-येषां शठानां योगत्रयस्यापि मनोवाक्वायव्यापारत्रिकस्यापि संवादो मीलनं नेह दृश्यते नात्रावलोक्यते तेषां शठात्मनां कार्य प्रयोजने संवादो मीलनं केन मृग्यते ? केन निभाल्यते ? न केनापीत्यर्थः ॥१८॥
अन्यच्च-यदि मायायदिशाठ्यं हतो विनाशितोधर्म: सद्गुष्टानं, हतंसत्यं सत्यवचनं शठात्मनोऽशुद्धपरिणामस्य, सर्वाविश्वासहेतुश्च सर्वाविश्रम्भकारणं च मायावी जायते नर इति ॥१८७|| १ श्लोक सप्तविंशतौ [१७३-१९९] नास्ति एव एतादृशः श्लोकः, ग्रन्थकृतैव पश्चान्निष्काशितः सम्भाव्यते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org