________________
अधिकार ८ / श्लोक १७३-१९९ / कषायस्वरूपम्
२१९
ये नराः क्रोधसन्दग्धा, ये नरा मानविह्वलाः । ये च मायामयाः केचि-द्ये च लोभवशं गताः ॥१९८॥ तेषामिहैव दुःखानि परलोकेऽधमा गतिः । दृष्टान्तोऽत्र कषायातँ रुद्रदेवकुटुम्बकम् ॥१९९।।
- इति श्लोकानां सप्तविंशति: प्राय: सुगमैव, तथापि शिष्यहितार्थं किञ्चिद्विवियते-शोकेन मन: सन्तापेनाभिभूयन्त बाध्यन्ते कषायवशवर्तिन: क्रोधादिकषायवशगा: अत:कारणात्फलं विपाकं कषायाणां कथ्यमानं निशम्यतामिति सुगमम् ॥१७३॥
वनवह्नि र्दावानलो यथा येन प्रकारेण दीप्तो ज्वलितो भस्मसात्कुरुते वनं दहतीत्यर्थ: क्रोधानल: कोपवह्निस्तथा तेन प्रकारेण दीप्त: प्रज्वलितो दहत्येव तपोवनं तप एव वनमरण्यं तद्दहतीत्यर्थः ॥१७४।।
वह्रिकोपयोः साम्यं दर्शयन्नाह यस्मात्स्थानादुत्तिष्ठते प्रभवति वह्निरग्निर्दहत्येव तमाश्रयं निजस्थानं, क्रोधोऽपि कोपोऽपि क्रोधिनं क्रोधवन्तं पूर्व प्रथमं दहति भस्मसात्करोति, नात्र संशय:, स्वाश्रयादपरत्र बलवदादौ सन्देहः ॥१७५॥
न सन्त: कोपेन बाध्यन्ते किन्तु नीचा एवेति दर्शयन्नाह-जितरोषरया निर्जितक्रोधवेगा: सन्त: सत्पुरुषा भवन्तीति गम्यते नीचा जघन्या कोपेन निर्जिता: अतो विजितेन सत्पुरुषजितेन कोपेन ये जिता ये निर्जितास्तेषां जघन्यानां तै: सद्भिः समं सार्थं का विरोधिता ? का प्रतिस्पर्धा ? न काचिदित्यर्थः ॥१७६||
किञ्च-अपकारिणि कोपश्चेत्कोपे कोपो विधीयतां किंविशिष्टे कोपे ? मित्र[हि सुहल्लोकघातके,, कृतोद्वेगे विहितसन्त्रासे चित्तसन्तापकारिणि ॥१७७॥
इह विदुषा तावत्तथा यतितव्यं यथा क्रोध उदयमेव नागच्छति, ये तूदितमपि क्रोधं निरुन्धन्ति तेषामर्थसिद्धिं दर्शयन्नाह-सर्वकार्याणि सर्वकर्तव्यानि सिद्धयन्ति निष्पन्द्यन्ते अर्थसाराणि प्रयोजनप्रधानानि तस्य क्रोधनिरोधकस्य नुर्नरस्य सुरङ्गाधूलिवत्प्रच्छन्नदरिरेणुरिव कोपो यस्य न प्रकटो भवेत् न प्रकाशीस्यादिति ॥१७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org