________________
२१८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अद्विजिह्वाः फणभृतो, बहिःश्वक्ष्णा भयङ्कराः । अन्तर्विषभृतो दूर, वर्जनीयाः शठा जनाः ॥१८४॥ शठानि यस्य मित्राणि, शठा यस्य गृहे स्त्रियः ।। उन्नतिस्तस्य दूरस्था, जीवितव्येऽपि संशयः ॥१८५।। येषां योगत्रयस्यापि, संवादो नैव दृश्यते । तेषां शठात्मनां कार्ये, संवादः केन मृग्यते ॥१८६॥ यदि मायाहतो धर्मो, हतं सत्यं शठात्मनः । सर्वाविश्वासहेतुश्च, मायावी जायते नरः ॥१८७।। निर्दोषोऽपि च मायावी, जनसन्त्रासकारणम् । अथवाऽहेम॒तस्यापि, किं न बिभ्यति देहिन: ? ॥१८८॥ ततो माया परित्याज्या, सर्वथा धार्मिकैर्जनैः । ततो धर्मस्ततः सत्यं, ततः सर्वेऽपि सद्गणाः ॥१८९॥ नदीनाथं तरन्त्येके, विशन्त्यन्ये रसातलम् । खनन्त्येके खनिं लोका, लोभः सर्वत्र कारणम् ॥१९०॥ रङ्गभूमौ च वंशाग्रे, कृतनागविडम्बना । नृत्यन्ति यन्नराः केचि-ल्लोभस्तत्रापि कारणम् ॥१९१॥ यत्सेवां कुर्वते केचि-त्खड़गव्यग्रकरा नराः । जीव नन्दन्ति जल्पन्तो, हेतुस्तत्रापि नापरः ॥१९२।। वश्चयति पिता पुत्रं, पुत्रोऽपि पितरं निजम् । यत्रलोभो न तत्रान्यो, धिग्धिग्लोभमहो जना: ॥१९३॥ 'स ज्ञानलाभकालेऽपि, लोभ: कष्टात्प्रलीयते। शेषेष्वपि कषायेषु, तिलतैलमिव स्थितः ॥१९४॥ त्रैलोक्यगतजीवानां, चित्ते चित्ते व्यवस्थितः । एकधा बहुधा लोभो, दृश्यते जलचन्द्रवत् ॥१९५।। अहो! लोभस्य साम्राज्यं, यदधीनोऽखिलो जनः । तत्र तत्र प्रयात्येव, यत्र कुत्रापि नीयते ॥१९६।। यदटन्ति महीमेके, समारोहन्ति रोहणम् ।
तृषार्ताः क्षुधिता दीना, लोभस्तत्रापि जृम्भते ॥१९७॥ १ टीकानुसारी अयं पाठः । केवलज्ञानलाभे (काले-मु.) ऽपि लोभः कष्टेन वेद्यते-BJPमु. । वेद्यते प्रलयं नीयते J पार्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org