________________
२१७
कषायाधिकार: ८
उक्त: शोकाधिकार: सप्तम: अथ कषायाधिकारोऽष्टम उच्यते, अस्य चायमभिसम्बन्ध: पूर्वत्र शोकवतां शोकापनोदः कृतः, शोकश्च कषायवतामेव सम्भवति, तदत्र कषायस्वरूपमुच्यत इति, तत्र श्लोकानां सप्तविंशतिरियं
शोकेन चाभिभूयन्ते, कषायवशवर्तिनः । अतः फलं कषायाणां, तन्यमानं निशम्यताम् ॥१७३॥ वनवह्निर्यथा दीप्तो, भस्मसात्कुरुते वनम् । क्रोधानलस्तथा दीप्तो, 'दहत्येवं तपोवनम् ॥१७४।। यस्मादुत्तिष्ठते वह्नि-दहत्येव तदाश्रयम् । क्रोधोऽपि क्रोधिनं पूर्वं, दहत्येव न संशयः ॥१७५॥ जितरोषरया: सन्तो; नीचा: कोपेन निर्जिताः । जितेन ये जितास्तेषां, तैः समं का विरोधिता? ॥१७६॥ अपकारिणि कोपश्चे-त्कोपे कोपो विधीयताम् । मित्रद्रुहि कृतोद्वेगे, चित्तसन्तापकारिणि ॥१७७॥ सर्वकार्याणि सिद्धयन्ति, अर्थसाराणि तस्य नुः । सुरङ्गधूलिवत्कोपो यस्य न प्रकटो भवेत् ॥१७८॥ बुद्धया कार्याणि साध्यन्ते, सा तु कृद्धस्य नश्यति । तस्मात्क्षमा क्षमैवोच्चैः, सर्वकार्यप्रसाधिका ॥१७९॥ न नमस्यति देवेभ्यो, वरिवस्यति नो गुरुन् । अहङ्कारग्रहग्रस्त: पितृनपि न मन्यते ॥१८०॥ अहं दाता अहं भोक्ता, रूपवान् धनवानहम् । एवं सर्वगुणाधारं, स्वमानी मन्यते स्वयम् ॥१८१॥ अमानमानमारुढ-स्तुणतुल्यं मन्यते जगत् । मेरोरप्यधिकं मूढः, पश्यत्यात्मानमात्मना ।।१८२॥ अहो मानस्य दौरात्म्यं, येन प्राप्तो न केवलम् । सुनन्दानन्दनः साधु-र्यावन्मानं न मुक्तवान् ॥१८३॥
१ टीकानुसारी अयं पाठः । भस्मसात्कुरुते वनं- BJVCPI भस्मसात्कुरुते नरं-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org