________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अत्रान्तरे च सम्प्रापु-र्लोका आसन्नवासिनः । अष्टापदस्य शैलस्य, प्रणम्योचुर्नरेश्वरम् ॥ २५५॥ अष्टापदमहाशैले, याऽऽनीता च तवाङ्गजैः । महागङ्गा तथा भृत्वा, खातिकां भूरिवारिभिः ॥ २५६ ॥ प्रत्यासन्नाः पुरग्राम-गोकुलनगराकराः । कदर्थ्यन्ते पय: पूरैः, सर्वतोऽपि विसर्पिभिः ॥ २५७॥ तन्नाथ वार्यातां गङ्गा-नीरपूरः सुदुर्धरः । आकर्ण्येदं ततो भूपो, भागीरथ्यभिधं सुतम् ॥ २५८॥ आहूय प्रवदत्येवं, यथा त्वं वत्स! सादरम् । नागराजं समाराध्य, सर्वैराराधनाक्रमैः ॥२५९॥ दण्डरत्नं समादाय, गङ्गां प्रापय सागरे । ततो भागीरथिर्गत्वाऽष्टापदे मन्त्रिभिः समम् ॥ २६० ॥ ततश्चाष्टमभक्तेन, तेनाराधि फणिप्रभुः । ततः सोऽपि विनिर्गत्य, क्षणादेव रसातलात् ॥ २६१॥ समायातः स्फुरत्स्फार-नानाभुजगभूषणः । एवं भागीरथं प्राह, वत्स ब्रूहि प्रयोजनम् ॥२६२॥ तेनापि च स विज्ञप्तः, कृत्वा मूर्ध्नि कराञ्जलिम् । नागेन्द्र! त्वदनुज्ञातो, गङ्गां सिन्धौ नयाम्यहम् । २६३। फणीन्द्रेणापि स प्रोचे, सस्नेहं तुष्टचेतसा । यथा वत्स! निराशङ्को, विधेहि स्वसमीहितम् || २६४|| ततो भागीरथिस्तूर्णं, कृत्वा सामग्रिकां क्षणात् । दण्डरत्नेन भिन्दानः, समुद्राभिमुखां महीम् ॥ २६५ ॥ नानाविधपुरग्राम-नानाकारमहीभृताम् । नानाजनपदानां च, मध्येनात्यन्तवेगतः || २६६|| नानाजलचराकीर्ण-जलकल्लोलसङ्कुलाम् । निनाय नीतिमानेवं, तदा गङ्गां महोदधौ ॥ २६७॥
अनीता जन्हुना येन, हिमाद्रेर्जाह्नवी ततः । यद्भागीरथिना नीता, भागीरथ्यपि तेन सा ॥ २६८ ॥ भागीरथिस्ततस्तुष्टः, समं सामन्तमन्त्रिभिः । पितुसंज्ञां विधायाशु, समायातो निजां पुरीम् ॥ २६९ ॥ जनकतनुजमृत्यौ चक्रतुः शोकमुच्चै-र्भरतसगस्चक्रस्वामिनौ भूरिशब्दैः । तदपि च न हि ताभ्यां सद्गुणः कोऽपि लेभे, परमजनि नितान्तं धर्मकामार्थहानिः ॥२७०॥ इति सुकृतरिपुत्वं सुष्ठुशोकस्य मत्वा, त्यजत सकलशोकम् सर्वथा बन्धुनाशे । श्रयत च जिनधर्मं श्रेयसामेकपात्रं, भवजलनिधिमज्जदेहिनां यानपात्रम् || २७१॥
२१६
Jain Education International
इति सगरचक्रवर्तिकथानकं समाप्तम् ॥
For Private & Personal Use Only
www.jainelibrary.org