________________
अधिकार ७ / श्लोक १७२ / सगरचक्रवर्तीकथानकम्
जल्पितं च कथं व्यूढौ, करौ ते तेषु घातने । कथं त्वयेदृशं कर्म, कृतं! निघृण! निघृणम् ॥२३६।। अहो कथमकाण्डेऽपि, यमराजेन चेष्टितम् । यदेकदैव मे पुत्रा, नीता: सर्वेऽपि पञ्चताम् ।।२३७।। किं विदधाम्यहं तत्र, शूरो वीरोऽपि बुद्धिमान् । अत्यन्तादृश्यमानेऽत्र, विधौ दुष्टविचेष्टिते ॥२३८।। इत्यादि विविधं राजा, प्रलपन् भूरिनि:स्वनैः । उक्तस्तेन द्विजेनैवं, राजेन्द्र ! कुरु धीरताम् ॥२३९।। विमुञ्चैनं महाशोकं, धर्महानिकरं दृढम् । सम्भाषय निजं लोकं, कुरु धर्मपरं मनः ॥२४०॥ कुत्र ते तद्वरं ज्ञानं?, कुत्र ते सा विवेकिता? । कुत्रोपदेशदातृत्वं?, क्व वा सां तव धीरता?।२४१॥ अपि च- परवसणम्मि सुहेणं, संसाराणिच्छियं कहइ लोए ।
नियबंधुयणविणासे, सवस्स चलंति बुद्धीओ ॥२४२॥ तुम्हारिसावि पुरिसा, जइवि छलिजंति दहसोएण। ता कत्थ थिरं होही, धीरत्तमनिंदियं भुवणे ॥२४३॥ वसणम्मि ऊसव्वम्मि य, एगसहावा हवंति सप्पुरिसा ।
जारिसओ चिय उदए, अस्थमणे तारिसो सूरो ।।२४४॥ यथा- उदये सविता रक्तो, रक्तोऽस्तसमये तथा।
सम्पत्तौ च विपत्तौ च, महतामेकरूपता ॥२४५॥ सप्पुरिसच्चिय वसणं, सहति गरुयंपि निग्गयपयावा । धरणिच्चिय सहइ जए, वजनिवार्य न उण तंतू ॥२४६॥ होइ गरूयाण वसणं, न उणो इयराण सुप्पसिद्धमिणं । ससि-सूर चिय घेपंति, राहुणा न उण ताराओ ॥२४७॥ सप्पुरिसे चिय निवडंति, आवया न उण पयइपुरिसम्मि । लक्खिज्जइ मलिणं सस-हरम्मि न उणो विडप्पम्मि ॥२४॥ कुणइ वियारं कालो, विवेयपुरिसाण गुणमहग्याणं । सिसिरत्तणं न सिसिरो,विकुणइ जलणस्स पहवंतो ॥२४९॥ वसणम्मि समावडिए, पयइं न हु कहवि सुपुरिसो 'मुयइ ।
राहुमुहगहियमुक्को-वि तबइ सूरो धरापीठं ॥२५०॥ . इति विज्ञाय राजेन्द्र !, विरसं भवचेष्टितम् । विमुच्य सर्वथा शोकं, धीरवीरत्वमाश्रय ।।२५१॥ युष्मादृशां नृपाशेष-भवासारत्ववेदिनाम् । शिक्षणं क: क्षम: कर्तुं, मुक्त्वान्य: स्वविवेकिताम्।२५२। इत्युक्त्वाथ नृपं तेन, प्रोक्ता: सामन्तमन्त्रिणः । यथा भो! कथ्यतां सर्वं, यथावृत्तं महीभुजे ॥२५३।। तैरपि मूलत: सर्वं, खातिकाखननादिकम् । कुमारकविनाशान्तं, समाख्यातं सविस्तरम् ॥२५४॥ १ चयइ- इति ‘मणोरमाकहा' ग्रन्थे पृ. २१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org