________________
२१४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
किञ्च-सन्ति षष्टिसहस्राणि, ममापि जितविद्विषाम्। पुत्राणांरूपलावण्य-नवयौवनशालिनाम्॥२१॥ तेषामपि कृतान्तेन, त्रैलोकस्यापि वैरिणा। सततं ग्रस्यमानानां, त्राणं कः कर्तुमीश्वरः ॥२१४॥ तस्माच्छोकं विमुञ्चस्व; मा मा रोदीर्द्विजोत्तम!। चिन्तयस्व स्वकार्याणि, सर्वथात्महितं कुरु।२१५। यावत्त्वमपि नाद्यापि, ग्रस्यसे हतमृत्युना । यतोऽयं सर्वजीवानां, वर्तते निकटे सदा ॥२१६।। वैद्येन याचितं यच्च, भस्माऽमृत्युकुलोद्भवम् । सम्प्राप्तिस्तस्य नैवेह, विद्यते त्रिजगत्यपि ॥२१७॥ किञ्चास्मदीयवंशेऽपि, सङ्ख्यातीता नराधिपा: । ग्रासीकृता: कृतान्तेन, का वार्ता शेषजन्तुषु ॥२१८|| यत:- सम्वेवि हु नेरईया, तिरिया नरखयरसुरवरगणा य ।
मरणं पावेंति जए, निययं चिय नत्थि संदेहो ॥२१९॥ जम्माउ होइ मरणं, निययं मरणाउ तह य उप्पत्ती।
संसारे नत्थि थिरो, जाव न मोक्खं न उ (सयं) पत्तो ॥२२०॥ तथा- सव्वस्सवि एस गई, होही कालेण जीवलोयम्मि ।
नियकम्मजियवसगस्स, जंतुणो किं व रुन्नेण ॥२२१॥ सव्वस्स होइ समभूवि-ओ य करणम्मि पञ्चलो धणियं । संजोयं न उण कुणइ, पाणिणं पावपरिणामो ॥२२२॥ दुक्खं अवणेइ फुडं, राया जो तस्स गोयरे पडइ ।
एयस्स ण देवेहिं वि, न तीरए निययमवणेउं ॥२२३॥ इत्यादि बहुधा भूपं, जल्पन्तं प्राह स द्विजः । किमहो सत्यमेवेदं, यद्भवताभिधीयते ॥२२४॥ ज्ञात्वा सत्यमिदं सर्वं, संसारस्य विजृम्भितम् । मा कृथास्तत्र भो: शोकं, यदहं कथयामि ते ।।२२५।। श्रद्धातुं वा कथं शक्यं, कथ्यमानमिदं मया । यद्वा तन्नास्ति संसारे, सम्भवति यदत्र नो ॥२२६।। हस्त्यश्वरथसामन्त-योधैः, परिवृता अपि । सर्वे ते तावका: पुत्रा, युगपत्पञ्चतां गताः ॥२२७॥ सर्वे दग्धा: फणीन्द्रेण, विषसम्पूर्णचक्षुषा । तद् ज्ञात्वाऽनित्यतामेनाम्, शोक: कार्यस्त्वयापि नो।२२८॥ श्रुत्वेदं मनुजेन्द्रोऽपि, वज्राहत इव द्रुमः । मूर्च्छया नष्टसच्चेष्टः, पपाताशु महीतले ।।२२९॥ ततोऽपि गतमूर्च्छश्च, क्षणात् सम्प्राप्तचेतन: । प्राकृतनरवत्प्रोच्चै-राक्रन्दमुखराननः ॥२३०॥ भूरिहाहारवै|रै-ाप्ताखिलदिगन्तरः । एवं सान्त:पुरो राजा, प्रवृत्तो रोदितुं भृशम् ॥२३१॥
हा हा हतविधे ! पाप!, महापापविधायक !।
अकर्तव्यं त्वयाकारि, यदहारि(षी:) ममाङ्गजा:(जान्) ॥२३२॥ अकर्तव्यतरं त्वेत-द्यन्नैकोऽपि ममाङ्गजः । तेभ्यो मुक्तस्त्वया क्रूर!, किमु त्वं मम वैरिक: ?।२३३। एकस्मिन्नपि भो: पाप!, मत्पुत्रे पन्नगाधिप!। किं त्वया निरनुक्रोश!, निर्लज ! न कृता कृपा? ।२३४॥ कथं ते मारयामीति, चिन्तितं निजमानसे। चिन्तयित्वा कथं वाचा, घातयामीति जल्पितम् ।।२३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org