________________
२१२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
तत: सचिवसामन्तै-मिलित्वैकत्र मन्त्रितम् । अहो सर्वकुमाराणां, जातं मरणमेकदा ॥१७२॥ कथं नाम नरेन्द्राय, दुःश्रव्यं कथयामहे ? । सर्वथैव दुराख्येयं, दुर्घटं किमु कुर्महे ? ॥१७३॥ यत:- अच्छउता नियपहुणो, परेण वावायणं समक्खं जं।
कीरइ अन्नेसि पियमरणं न सहति तं धीरा ॥१७॥ एवं निवेयणं पुण, पहुणो वावायणस्स न हु जुत्तं । हुंति च्चिय संसारे, कज्जाइं एत्थ कुडिलाइं ॥१७५॥ तं किंपि पडइ कज्जं, पुवजियदुहृदेव्वजोएण।
मरणेवि जेण गरहा, जीयं पुण पावपरिणामो ॥१७६॥ तदहो शक्यते नैव, सञ्चिन्तयितुमप्यदः । किं पुनर्भूपते: साक्षा-त्समाख्यातुं स्फुटाक्षरैः ॥१७७।। किन्त्वस्माकमपि श्रेयो, वह्नौ ज्वालासमाकुले । पतङ्गमरणं कर्तु-मेव दुःखप्रणाशकम् ।।१७८।। न पुन: सर्वथा सर्व-पुत्रमृत्युनिवेदनम् । अथवा भाव्यमस्माक-मकीर्त्या स्फुटमेतया ॥१७९।। इत्थं मन्त्रयतामेव, तत्र सामन्तमन्त्रिणाम् । अत्यन्ताकुलचित्ताना-मेको विप्रः समागतः ॥१८०॥ उक्ताश्च मन्त्रिणस्तेन, किमेवं भो: समाकुला:। विषादमिह मुञ्चध्वं, गृह्णीध्वं च सुधीरताम् ॥१८१।। त्यज्यतां शोकसम्भारो, भाव्यतां च भवस्थितिः । संसारवर्तिजीवानां, कियन्मात्रमिदं यतः ।।१८२।। एतदपि च नात्यन्त-माश्चर्यं प्रतिभासते । यत्तु षष्टिसहस्राणि, पञ्चतामेकदा ययुः ॥१८३।। यत:- कालम्मि अणाईए, जीवाणं विहिकम्मवसगाणं ।
तं नत्थि संविहाणं, संसारे जं न संभवइ ।।१८४॥ इत्युक्त्वा ब्राह्मणस्तूर्णं, मन्त्रिवर्गसकाशत: । अनाथमृतकं लात्वा, प्राप भूपस्य मन्दिरम् ॥१८५।। कुर्वाण: करुणारावान्, बृहच्छब्दैर्वृतं द्रुतम् । मुष्टो मुष्टोऽहमित्युच्चै-स्तव राज्येऽपि भूपते !||१८६।। आकर्येदं ततो राज्ञा, शीघ्रमाकारितो द्विजः । उक्तश्चैवं यथा केन, मुष्टोऽसि मम कथ्यताम् ॥१८७॥ द्विज: प्राह यथा राजन् !, मुष्टोऽहं हतवेधसा । पुत्रो मे एक एवायं, दष्टो दुष्टमहाहिना ॥१८८॥ निश्चेष्टो भूप! सञ्जात:, सर्वथा नष्टचेतन: । तदमुं मामकं पुत्रं, जीवापय महीपते ! ॥१८९॥ अत्रान्तरे समायाता-स्तेऽपि सामन्तमन्त्रिण: । आस्थाने राजराजस्य, शोकाकुलितचेतसः ॥१९०।।। कृत्वा विमनसो राज्ञः, प्रणामं नम्रमौलय: । उपविष्टाश्च ते सर्वे, सस्नेहं दापितासना: ॥१९१॥ अथादिष्टो महावैद्य:, श्रीमत्सगरचक्रिणा । यथा द्विजस्य पुत्रोऽयं, निर्विष: क्रियतामिति ॥१९२।। तत: प्रभाषते वैद्यो, विज्ञातसुतमृत्युक: । राजेन्द्र ! यदि यत्रेह, गृहे गोत्रे कुलेऽपि वा ॥१९३॥ न मृतो जन्म सम्प्राप्य, कोऽपि क्वापि कदाचन । तस्माद्हात्समानीत-मात्रेण भस्मना नृप ! ॥१९४॥ सर्वथा निर्विषं कृत्वा, जीवापये द्विजाङ्गजम् । अथ प्राह नृपं मन्त्री, सर्वनीतिविशारदः ॥१९५|| किमस्ति देव ! संसारी, जीव: कोऽपि जगत्त्रये । सञ्जाते यस्य नैवेहा-नन्तशो मृत्युजन्मनी ॥१९६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org