________________
अधिकारः ७ / श्लोक १७२ / सगरचक्रवर्तीकथानकम्
२११
यत:- माणुनयाणवि फुडं, सामं गरुयत्तणं पयासेइ ।
दंडसहायं इहरा, नराण दीणत्तणं कुणइ ॥१४७।। दो चेव नवर नीईओ, होंति पुरिसाण गुणमहग्याण ।
सामं च 'विणयपिसुणं, दंडो व्व पयाववित्थारो ॥१४८॥ एभिस्तावत्समालोकि, सामनीतिर्मदीयका । सम्प्रत्यदृष्टपूर्वां च, दण्डनीतिं प्रदर्शये ॥१४९॥ एवं सञ्जल्प्य नागेन्द्रो, रुषारुणितलोचन:, । आदिदेश महाघोरान्, दृष्टिविषमहोरगान् ॥१५०॥ यथातित्वरितं गत्वा, तान् सगरसुतानहो । विनाशयत निःशेषान्, दूरं दुर्नयकारिण: ॥१५१॥ ततस्तैर्विषपूर्णाक्षै-विनिर्गत्य रसातलात् । नीता: सर्वे क्षणादेव, भस्मपुञ्जावशेषताम् ॥१५२।। एवं च भस्मपुञ्जेषु, जातेषु नृपसूनुषु । जातो हाहारवो घोरः, क्षुब्धं तद्राजसैन्यकम् ॥१५३॥ किङ्कर्तव्यतया मूढाः, प्रलपन्ति स्म भूभृतः । यथा भो: ! कुत्र गच्छाम:, कस्य वा कथयामहे॥ युध्यामहे समं केन, सर्वथाऽदृष्टवैरिणा। कथं वा दर्शयिष्यामो, मुखं सगरभूपते: ? ॥१५५॥ यावदेवं च तत्सैन्यं, निस्त्राणं शोकविह्वलम् । नानाविधकृताक्रन्दं, जातं संमूढमानसम् ॥१५६।। तावद् ज्ञात्वा स्वभर्तृणां, मृत्युमाकस्मिकं क्षणात् । प्रवृत्तं रोदितुं प्रोच्चै-रन्त:पुरं महारवैः ॥१५७॥ हा हा कृतान्त ! निस्त्रिंश!, निर्विवेकातिनिर्दय ! । संहत्य मामकान् भर्तृन्, लब्धं मूढ ! किमु त्वया ?॥ हा धातरेककाले किं, सर्वनाशस्त्वया कृत: ?। किं वेदमिन्द्रजालं वा, किं वास्मन्मतिविभ्रम: ? ।। किं वापि सत्यमेवेदं, सञ्जातं श्रूयते यथा ? | किमेकदैव वैधव्य-मस्माकमिदमागतम् ? ॥१६०॥ तदहो! किं वयं कुर्म: ? क्व याम: कं श्रयामहे ? । कस्येदं वा समाख्याम: ?, किं कृतं सुकृतं भवेत् ?॥ इत्यादि प्रलपन्तीभि-रन्त:पुरीभिरुच्चकैः । ताडयन्तीभिरत्यर्थं, कराघातैरुरोऽभितः ॥१६२॥ त्रोटयन्तीभिरुद्दाम-मुक्ताहारान् कचांस्तथा । वस्त्राणि पाटयन्तीभि- लुंठन्तीभिर्महीतले ॥१६३॥ मुञ्चन्तीभिर्मुखाल्लोल-लालाजालानि भूरिश: । सिञ्चन्तीभि: कदम्बाभै-रथुपातैरुर:स्थलम्॥१६४।। कुर्वन्तीभिर्महाक्रन्दान्, भूरिशो रुदितं तथा । यथा भो: श्वापदान्युच्चै, रोदितानि वनान्तरे ।।१६५।। एवं च करुणारावै-रन्त:पुरं रुदद् भृशम् । सैन्यं च दुःखितं सर्वं, सन्धीर्यतेऽथ मन्त्रिभिः ॥१६॥
एवं प्रभाषमाणैश्च, यथा भो भो नराधिपा: !।
भो भो: स्वस्वामिनो भक्ता!, योधा: ! सेनाधिपा: ! जना: ! ॥१६७॥ कुमाराणां कृते भद्रा:, किमर्थमिह रुद्यते । यतस्तैः सर्वमेवोच्चैः, कर्तव्यं कृतमञ्जसा ॥१६८॥ जैनेन्द्रवेश्मयुक्तस्य, कृताष्टापदभूभृत: । रक्षा स्वजीवितेनैवं, कुर्वद्भिः खातिकामिमाम् ॥१६९॥ अस्माभिर्भो: पुनस्तेषां, विश्वोपकृतिकारिणाम् । नैवेहोपकृतं किञ्चि-द्वह्निप्रदानतोऽपि हि ॥१७०॥ तस्मात्प्रदीयतां भो भो:, शीघ्रमेव प्रयाणकम् । प्रदत्तं च क्षणादेव, प्राप्ताश्च निजकां पुरीम् ॥१७१।। १ विणेय-B मु. । विण्णेयं-J॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org