________________
२१०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
सगुणेहिं चिय पुरिसा, पयडा चूडामणीव विक्खाया। वुझंति सिरेण जए, सयलजणसलाहणिज्जा य ॥१२॥ इयरे जं किंचि गुणं, लहिऊण समुच्छलंति तुच्छप्पा। दुब्बलपक्खपरिग्गह-गहिआ सलहव्व भुवर्णमि ॥१२६॥ इय नियचरिएहिं चिय, पुरिसा नजन्ति कुलगुणसमेया।
मज्जायक्कमणेण, जेण लहुइंति अप्पाणं ॥१२७॥ अन्यच्च विदिता यूयं, पुत्रा: सगरचक्रिण: । तन्नेदं भवतां युक्तं, कर्तुं गोत्रकलङ्कनम् ॥१२८॥ यत:- ते पुत्ता जे पिउणो, चित्तेण पहेण सइ पयर्टेति ।
तेसिं गुणगहणेणं, पियावि सलहिज्जइ जयंमि ॥१२९॥ दुस्सीलेहिं सुएहिं, विलहइ वयणिजयं पिया सययं ।
किरणातवम्मि भुवणं, लोओ सूरस्स रूसेइ ।।१३०॥ तद्यावद्भज्यते नैव, चूला मामकवेश्मनः । तावद्विश्राम्यतां दण्ड-रत्नमेतत्समुद्यतम् ॥१३१।।
यत:- कज्जं कुणंति निययं, उवरोहं नेय कस्सइ जणंति ।
__ गुणवंतयाण कप्पो, भमराण व होइ कमलेसु॥१३२॥ श्रुत्वेदं जलुना प्रोचे, नास्माभिस्तव वेश्मन: । भञ्जनार्थमियं चक्रे, परिखा परितो गिरेः ॥१३३॥ तदस्माकं न कोऽप्यत्र, दोषोऽस्ति भुजगाधिप!। राष्टापदशैलस्या-स्माभिरेषा कृता यतः ॥१३४॥ तद्भो ! संहर संरम्भं, न कुर्मः पुनरीदृशम् । श्रुत्वेदं शान्तकोंपाग्नि-र्गतोऽसौ निजकाश्रयम् ॥१३५॥ तस्मिन् गतेऽथ भूयोऽपि, ब्रूते जनुकुमारकः । कृतापि खातिका दुर्गा, नेयं भाति जलं विना।१३६। तदहो क्रियतां तूर्ण-मेतस्या नीरपूरणम् । इत्युक्ते दण्डरत्नं तद्, गृहीतं राजसूनुभिः ॥१३७।। गत्वा च संहतै: सर्वैर्दण्डरत्नेन भूतलम् । भिन्दा हिमवच्छृङ्गा-निष्क्रान्ता निर्मलोर्मिका ॥१३८।। नानाजलचराकीर्ण-नीरपूरप्रवाहिनी । समाकृष्टा महागङ्गा, परिखाभिमुखं जवात् ।।१३९॥ सा च रगत्तरगौटु-र्भुजगगतिगामिनी । वेगत: परिखामध्ये, समानीय प्रवेशिता ॥१४०॥ तस्या नीरमहापूरं, सम्पूर्य परिखां भृशम् । प्लावयामास नागेन्द्र-भवनानि रसातले ॥१४१॥ दृष्ट्वा विशज्जलं नागै-र्भणितो भुजगाधिप: । किमेष जृम्भते स्वामि-न्नपूर्वः सलिललचः ॥१४२।। यत:-दृश्यते नागिनीवृन्द-मुह्यमानं जलप्लवै: । प्लाव्यमानानि चाशेष-भवनानि समन्ततः ।।१४३॥ अथ प्रोवाच सावेश:, श्रुत्वेदं ज्वलनप्रभ: । विद्यन्ते सगराख्यस्य, चक्रिणो दुष्टसूनवः ॥१४४॥ यैर्दण्डरत्नमादाय, भित्त्वा दूरं रसातलम् । गङ्गानदीजलप्लावैः, प्लावितानि गृहाणि नः ॥१४५॥ कृतमेव मया साम, तेषां दुर्नयकारिणाम् । नूनं दुष्टाशयत्वेन, तत्परिणतमन्यथा ॥१४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org