________________
अधिकारः ७ / श्लोक १७२ / सगरचक्रवर्तीकथानकम्
२०९
ततोऽस्यैव गिरे: श्रीम-जिनवेश्मयुतस्य भोः । रक्षां कुर्मः प्रयत्नेन, वयं सर्वेऽपि संहताः ॥१०२॥ यत: श्रेयस्करं लोके, दानात्तत्परिपालनम् । भविष्यन्ति च निर्धर्माः, प्राय: पापपरा नरा: ॥१०३।। तद्यावन्मर्त्यलोकोऽयं, यावच्चैष धराधरः । अस्माकमपि सत्कीर्ति-स्तावन्नूनं भविष्यति ॥१०॥ इत्युक्त्वा नृपतीन् जळु-दण्डरत्नमुपाददे। अष्टापदस्य रक्षार्थं, सार्धं सर्वैः स्वबन्धुभिः ॥१०५॥ तत: खातुं समारब्धा, दण्डरत्नेन मेदिनीं। परितस्तस्य शैलस्य, त्वरितं खातिका कृता ॥१०६॥ दण्डरत्नं च तत्तीक्ष्णं, द्विधा कुर्वन्महीतलम् । योजनानां सहस्रं तु, पातालं विशति द्रुतम् ॥१०७॥ ज्वलनप्रभसञ्जस्य, नागराजस्य मेदिनीम् । सम्प्राप्तं भवनान्युच्चै-र्भनक्त्याशु समन्ततः ॥१०८॥ मह्यां विदार्यमाणायां, दण्डरत्नेन सत्वरम् । निपेतुर्लेष्टवस्तत्र, सपाषाणा: सपांशवः ॥१०९।। सर्वतो नागवेश्मानि, समं पृथ्व्या चकम्पिरे । प्रससार समुद्योतो, भानुरश्मिसमुद्भवः ॥११०॥ अथ नागकुमारास्ते, दृष्ट्वाकस्मिकविड्वरम् । अत्यन्तादृष्टपूर्वं च, भीता: सम्भ्रान्तलोचना: ॥११॥ सङ्गुब्धा: कम्पमानाङ्गाः, नश्यन्ति स्म दिशोदिशि । किमेतदिति जल्पन्त्यः, सन्त्रस्ताश्च तदङ्गनाः॥ त्यक्त्वा मानं भयोद्धान्ता, आश्लिष्यन्ति निजान् पतीन् । रक्षत रक्षतेत्याशु, कुर्वन्त्य: करुणारवम्॥ जज्ञिरे च समुल्लापा:, नागलोके समन्तत: । किं किं किमिदमित्येवं, तुमुलारवसङ्कुलाः ॥११४।। अथालोक्य महारौद्र-मुपप्लवमुपस्थितम् । सम्भ्रान्त नागलोकं च, नागेन्द्रो ज्वलनप्रभः ॥११५॥ सम्प्रयुक्तावधिख़त्वा, कुमाराणां विचेष्टितम् । तूर्णं रोषभरापूर्णो, विनिष्क्रान्तो रसातलात् ॥११६॥ सम्प्राप्त: कुमराभ्यासे, साक्षेपं सोऽब्रवीदिदम् । यथा भो भोः ! किमारब्ध-मस्मल्लोकव्यथाकरम् ॥ युष्माभिर्दण्डरत्नेन, भिन्दानैर्मेदिनीतलम् । कृत्वा पूर्वस्थितेर्लोपं, किं लब्धं कथ्यतां मम ॥११८॥ अथवात्मवधायैव, जायते तुच्छताङ्गिनाम् । मानापूरितचित्तानां, बलं बलवतामपि ॥११९॥ यत:- अप्पवहाए निययं, होइ वलं उत्तुणाण भुवणम्मि ।
नियपक्खबलेणं चिय, पडइ पयंगो पईवम्मि ॥१२०॥ होइ विणीओ गरुओ, गुरुत्तणं संपयाए पढमंगं । अविणीओवि हु लहुओ, लहुत्तणं आवईए य ॥१२१॥ एसावि जये लच्छी, सोहइ मग्गट्टियाण पुरिसाण । इयराणं पुण सिग्धं, नासइ आसयविणासेण ॥१२२॥ जे हुंति महापुरिसा, ते ठिइभंगं कुणंति न कयाइ । उवलद्धो किं केणइ, मग्गोतिन्नो रहो रविणो ॥१२॥ ते हंति सत्तवंता, ते संतो ते महायसा भुवणे । जे नेति सिरि सुपइट्टिएण सप्पुरिसमग्गेण ॥१२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org