________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
पश्यन्ति कुमराः शैलं, विस्मयोत्फुल्ललोचनाः । समारूढाः क्रमात्तस्य, गिरेः श्रृङ्गं मनोहरम् ॥७४|| दृष्टवन्तश्च तत्रोच्चं, रम्यं जैनेन्द्रमन्दिरम् । चतुर्विंशतिजैनेन्द्र- बिम्बसन्दोहसुन्दरम् ॥७५॥ स्वर्णरत्नमयं दिव्यं, भरतेन विधापितम् । पद्मरागमयोदार-तारसोपानराजितम् ॥७६॥ श्वेतरत्नमयोत्तुङ्ग-वेदिकासमलङ्कृतम् । सूर्यकान्तमयोत्प्रेङ्ख-दुत्तुङ्गशिखरान्वितम् ॥७७॥৷ नानारत्नचयाकीर्ण-सौवर्णस्तम्भभित्तिकम् । सन्मरकतमाणिक्य-मण्डितोद्भटकुट्टिमम् ॥७८॥ चन्द्रकान्तमयोद्भास्व-तुङ्गप्राकारराजितम् । चारुचामीकरोदार - 'निर्यूहकशतान्वितम् ॥७९॥ तस्मिंश्च पञ्चवर्णाभ-मणिखण्डाभिमण्डिताः । स्वर्णरत्नमयाः कान्ता:, शान्ता: शान्तिप्रदायिकाः ॥ चतुर्विंशतिजैनेन्द्र- प्रतिमाः सुमनोहराः । कारिता वर्णमानैश्च, युक्ताः सर्वैर्निजैस्तथा ॥ ८१ ॥ बाहुबले राज्ञश्च, चक्रिणो भरतस्य च ।
सुन्दर्याश्च तथा ब्राह्म्याः, स्वकभ्रातृशतस्य च ॥ ८२ ॥
I
कारिताः पर्युपासीनाः, प्रतिमास्तत्र सुन्दरा: । मणिरत्नविराजिन्यः, कान्तकाञ्चननिर्मिताः ॥८३॥ चतुर्योजनविस्तीर्णे, योजनाष्टकमुच्छ्रिते । भरतेन गिरौ तत्र, कारितं जिनमन्दिरम् ॥८४॥ नानास्तम्भसमाकीर्णं, नानोत्तुङ्गसुतोरणम् । नानारूपकसङ्कीर्णं, नानाध्वजपटाकुलम् ||८५॥ इत्यादिपरमाश्चर्य-कारिभिर्भूरिकौतुकैः । देवानां मानवानां च, नेत्रानन्दविधायकम् ॥ ८६ ॥ ततस्ते विस्मयापन्नाः, सानन्दाः सकुतूहलाः । मध्ये च कुमरास्तत्र प्रविष्टा जिनवेश्मनः ॥८७॥
२०८
प्रतिमा रम्या -श्चतुर्विंशतिरर्हताम् । ऋषभादिमहावीर - पर्यन्तानां मनोहराः ॥८८॥ सद्गन्धपुष्पवस्त्राद्यैः, पूजिता भक्तियोगतः । संस्तुताश्च स्तुतिस्तोत्रैः, संवेगरसदायिभिः ॥८९॥ ततस्ते प्रश्नयामासु-विस्मिता मन्त्रिणो निजान् । यथेदं कारितं केन, जिनमन्दिरमीदृशम् ||१०|| सर्वरत्नमयं तुङ्गं, तुङ्गतोरणसंयुतम् । कस्येयं शाश्वती कीर्ति-श्चरत्यद्यापि निर्मला ॥ ९१ ॥ ततश्च मन्त्रिभिः प्रोक्तं, यथा भो भोः कुमारकाः । कथयामः श्रूयतां सम्यग्युष्माभिः सावधानकैः ॥ आसीदाद्यजिनेन्द्रस्य, ज्येष्ठः पुत्रो गुणालयः । अस्यामेव महापुर्यां, चक्रेशो भरताधिपः ॥ ९३ ॥ तेनेदं कारितं तुङ्ग, सुन्दरं जिनमंन्दिरम् । सर्वरत्नमयानेक-बिम्बसन्दोहसङ्कुलम् ||१४|| श्रुत्वेदं जनुना प्रोक्त-मस्माकमिति भूरियम् । स्वायत्ताः सर्वरत्नानि, ते सर्वे निधयोऽपि हि ॥ ९५ ॥ तदेव चक्रवर्तित्वं, तथैवाज्ञाकराः सुराः । तस्मादन्विष्यतां तूर्ण-मष्टापदसमं गिरिम् ॥ ९६ ॥ येनाहमपि विस्फूर्ज-न्मणिरत्नविनिर्मितम् । कारयामि समुत्तुङ्ग - मीदृशं जिनमन्दिरम् ॥९७|| आकर्ण्यदं ततो दिक्षु, सकलास्वपि मन्त्रिभिः । गिरेर्गवेषणार्थाय प्रेषिताः पुरुषा निजाः ॥ ९८ ॥ ततस्तेऽपि गताः शीघ्रं भ्रान्ताश्चाखिलभूतले । न चाष्टापदसङ्काशः, शैलः कोऽपि विलोकितः ॥ ९९ ॥ ततो जनुकुमाराय तैरागत्य निवेदितम् । यथा नास्तीदृशः शैलो, यस्तुल्योऽष्टापदाद्रिणा ॥ १०० ॥ ततो जह्नुर्वदत्येवं, तान् सर्वांश्च नराधिपान् । यद्यन्यो नास्त्यहो क्वापि, शैलोऽष्टापदसन्निभः ॥१०१॥
L
1
१ = द्वार J पार्श्वभागे ॥
Jain Education International
For Private & Personal Use Only
9
www.jainelibrary.org