________________
अधिकारः ७ / श्लोक १७२ / सगरचक्रवर्तीकथानकम्
२०७
तेषां ज्येष्ठो गुणैः श्रेष्ठो, जह्लनामा कुमारकः । गीतद्यूतादिनि:शेष-कलाकौशलसंयुत: ॥४४|| अन्यदा क्रीडता तेन, द्यूतेन विजित: पिता । ततस्तुष्टः सुतं ब्रूते, यथा वत्स ! वरं वृणु ॥४५॥ जगुः प्राह यथा तात, यदि तुष्टोऽसि मेऽधुना । तदत्र यदहं याचे, तद्देयं सर्वथा त्वया ॥४६॥ राजाऽवोचदहो वत्स!, मनोऽभीष्टं प्रयाच्यताम् । स प्राह सर्वरत्नानि, चक्रादीनि प्रयच्छ मे ॥४७॥ येनाहं भ्रातृभिः सार्धं, सर्वैः सर्वबलान्वित: । पूजयन् वन्दमानश्च, जैनबिम्बानि भक्तित: ॥४८॥ पश्यन्नानाविधान् देशान्, पुरग्रामादिसङ्कुलान् । बम्भ्रमीमि यशाकामं, षट्खण्डेऽपि महीतले ॥४९॥ ततस्तं प्राह राजेन्द्रः, प्रमोदभरनिर्भरः । एवं कुरु निजान् वत्स!, सम्पूरय मनोरथान् ॥५०॥ ततस्तातप्रसादेन, इत्युक्त्वा पितरं निजम् । प्रणम्य च ययौ जगुः, कुमाराणां समीपके ॥५१॥ तानुवाच यथा भो भो, वयं सर्वेऽपि संहता: । गृहीत्वा सरत्नानि, पश्यामो मेदिनीतलम् ॥५२॥ तैरुक्तं युक्तमेवेदं, क्रियतामविलम्बितम् । तत: पितरमापृच्छय, बन्धुवर्गं च सादरम् ।।५३॥ कृत्वा च सर्वसामग्री, सर्वे पुर्या विनिर्ययुः । कुमारा: सहिता भूरि-सेनया चतुरङ्गया ॥५४॥ प्रवृत्ताश्च परिभ्रमितुं, कौतुकाकुलमानसा: । नदीनगपुरग्रामैः, सङ्कुलं मेदिनीतलम् ॥५५॥ भ्राम्यद्भिश्च महीपीठे, सर्वास्तै रक्षिता: प्रजा: । पालिता: शिष्टलोकाश्च, निर्जिता: सर्वशत्रवः ॥५६॥ पूजिता: पूजनीयाश्च, माननीयाश्च मानिता: । दृष्टानि सर्वतीर्थानि, सद्भक्त्या वन्दितानि च ॥५७॥ महा सर्वचैत्येषु, कृता यात्रामहोत्सवा: । वस्त्रपात्रादिभि: सर्व:, सङ्घश्च प्रतिलम्भित: ॥५८॥ प्रदत्तं च महादानं, दीनादिभ्यो यथेप्सितम् । कृताश्च बहवो मित्र-बन्धवः स्वजना जना: ॥५९|| अर्थिनामर्थदानेन, पूरिताश्च मनोरथाः । एवं ते कुमरा: सर्वे, भ्राम्यन्त: सर्वतो महीम् ॥६॥ प्रपश्यन्त: पुरग्राम-विहारनगराकरान् । नानानगनदीकूप-वापीपद्मसरोवरान् ।।६१।। खेटकर्बटमडम्बानि, नानावेलाकुलानि च । सम्प्राप्ता: सर्वतो रम्य-मष्टापदमहागिरिम् ॥६२॥ नानाविधद्रुमाकीर्णं, नानागोकुलसङ्कुलम् । क्वापि रिष्टकवैडूर्य-सन्मरकतशोभितम् ।।६३।। क्वापीन्द्रनीलसन्दोह--रश्मिराजिविराजितम् । कुत्रापि पद्मरागादि, रक्तरत्नचयाञ्चितम् ॥६४॥ कुत्रापि चम्पकच्छाय-मणिमण्डलभासुरम् । कुत्रापि चन्द्रकान्ताङ्क-हीरकावलिनिर्मलम् ॥६५।। कुत्रापि सुन्दरानेक-निर्झरारावसङ्कुलम् ।क्वापि स्वर्णमयानेक-शिलासीननभश्चरम् ॥६६॥ क्वापि पुष्पफलोपेत-वराराममनोहरम् । क्वापि स्वच्छजलापूर्णैः, पद्मखण्डादिमण्डितैः ॥६७।। नानारत्नमनोहारि-स्वर्णसोपानशोभितैः । क्रौञ्चसारसहंसादि-नानापक्षिसमाकुलैः ॥६८॥ नानाद्रुमादिभी रम्यैः, सरोभिरभिशोभितम् । रत्नरञ्जितसौवर्ण-भित्तिसोपानराजिभिः ॥६९।। विस्तीर्णाभिरनेकाभि-र्वापीभि: समलङ्कृतम् । क्वापि सङ्गीतकासक्तै-विद्याधरकदम्बकैः ॥७०॥ समध्यासितसौवर्ण-सुविशालशिलातलम् । क्वापि स्वर्गागतायुक्तै- नालङ्कारधारिभिः ॥७१॥ सुरूपैः सुरसन्दोहै-देहधुतिप्रभासुरैः । विक्रीडद्भिर्यथाकाम, सप्रमोदमनेकधा ॥७२॥ स्वर्गखण्डमिवाभाति, हारिभिर्भूरिवस्तुभिः । इत्यादिसुमनोहारि-नानाऽऽश्चर्यसमाकुलम् ॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org