________________
२०६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरलकरण्डके
अथातीतेषु मासेषु, नवस्वर्धाष्टमेषु च । दिनेषु विजयादेवी, जनयत्यजितं जिनम् ॥१६॥ उद्योतयन्तमङ्गोत्थ-प्रभाभि: सकला दिश: । कुर्वन्नानन्दसम्पूर्णं, जीवलोकं चराचरम् ॥१७॥ ततश्च दिक्कुमारीभिः, सर्वाभि: सर्वसम्पदा। सर्वं सर्वप्रयत्नेन, जन्मकर्म व्यधीयत ॥१८॥ ततो जन्माभिषेकश्च, चक्रे सानन्दमानसैः । देवेन्द्रैः श्रीजिनेन्द्रस्य, सुमेरौ सपरिच्छदैः ॥१९॥ ततः शक्रो जिनं नीत्वा, मुमोच विधिपूर्वकम् । मातु: समीपके पश्चा-ज्जगामानन्दितो दिवि ॥२०॥ राजापि सर्वसामग्र्या, समं सर्वैः स्वबन्धुभिः । सर्वर्या सादरं चक्रे, वर्धापनकमुच्चकैः ॥२१॥ येनेह श्रीनराधीशो, जिने गर्भस्थिते सति । निःशेषनिजकारातीन्, प्रजयत्यजितानपि ॥२२॥ तेन चक्रे स्वपुत्रस्य, नाम द्वादशमे दिने । अजित इति व्याख्यातं, सन्महोत्सवपूर्वकम् ॥२३॥ अथासौ सुषुवे राज्ञी, वैजयन्त्यपि चक्रिणम् । कुर्वन्तं बन्धुवर्गस्य, परमानन्दमुच्चकैः ॥२४॥ राजा तथैव तस्यापि, चकारोत्सवपूर्वकम् । सगर इति सन्नाम, सानन्दो विश्वविश्रुतम् ॥२५॥ एवं तौ तत्र वर्धेते, सार्धं सर्वगुणश्रिया। कुमारावद्भुतोल्लासि-लावण्यश्रीविभूषितौ ॥२६।। प्राप्तौ च क्रमतो लोक-लोचनानन्ददायकम् । यौवनं सर्वतो रम्यं, कामिनीजनमोहनम् ।।२७।। ततो विशालवंशोत्थ-बालिकानां नराधिप: । ग्राहयामास तौ पाणिं, महा शोभने दिने ॥२८॥ एवं च तौ प्रभुञ्जाते, कामभोगान्निरन्तरम् । प्रेयसीभि: समं ताभिः, पूर्णाशेषमनोरथौ ॥२९॥ अन्यदाऽऽलोक्य वृद्धत्वं, स्वस्यायातं क्रमानृपः । जितशत्रु: स्वराज्यस्य, योग्यत्वं च कुमारयोः॥ राज्ये निवेशयामास, स्वपुत्रमजिताभिधम् । सगरंन्युवराजत्वे, सुमित्रात्मजं मुदा ॥३१॥ अजितोऽपि जिनाधीशो, भुङ्क्ते राज्यवरश्रियम् । तीर्थप्रवर्तनाकाले, सञ्जाते क्रमशस्तत: ॥३२॥ संस्थाप्य सगरं राज्ये, दत्त्वा दानं किमिच्छितम् । देवैर्लोकान्तिकैः प्रोक्तो, यथा तीर्थं प्रवर्तय ॥३३॥
द्वात्रिंशद्भिः (चतुःषष्टि-) सुराधीशैः, कृते निष्क्रमणोत्सवे।
स बाह्याभ्यन्तरं ग्रन्थं, त्यक्त्वा दीक्षां प्रपन्नवान् ।।३४।। तप्यमानस्तपस्तीव्र, शुक्लध्यानकृशानुना । निर्दह्य घातिकर्माणि, प्रलेभे केवलथ्रियम् ॥३५।। ततश्च केवलज्ञान-प्रभाभि: प्रतिबोधयन् । भव्यपद्माकरानहन्, विजहार महीतले ॥३६॥ सगरोऽपि नराधीशो, वरविक्रमनयान्वितं: । चक्ररत्ने समुत्पन्ने, साधयामास मेदिनीम् ।।३७॥ उत्पन्नानि च रत्नानि, शेषाण्यपि त्रयोदश । निधयश्च नवाप्यस्य, बभूवुर्वशवर्तिनः ॥३८॥ मदोन्मत्तगजेन्द्राणां, स्यन्दनानां च जज्ञिरे । चतु:समन्विताऽशीति-लक्षाणि लक्ष्मधारिणाम् ॥३९।। जाता अष्टादशोत्तुङ्ग-तुरङ्गाणां च कोटय: । षण्णवतिर्वग्राम-कोटीनामभवनिति ॥४०॥ चतुःषष्टिसहस्राणि, नवयौवनयोषिताम् । क्षिपन्तीनां स्वलावण्य-रूपलक्ष्माः सुराङ्गना: ॥४१॥ इत्यादि सकले सिद्धे, षट्खण्डेऽपि महीतले। भुङ्क्ते स्म सगरो भोगान्, सुरखेचरनृपार्चितः।।४२॥ अथ षष्टिसहस्राणि, पुत्राणां जनयत्यसौ । सर्वलक्षणयुक्तानां, रूपलावण्यशालिनाम् ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org