________________
२०४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
अथ शोककारिणामुपालम्भपूर्वकं हितोपदेशमाह
भो जना! वोऽपि नैकट्ये, परलोकप्रयाणकम् । धर्मसम्बलमादाय, प्रगुणैः किं न भूयते ? ॥१६६॥
भो अहो जना लोका वोऽपि युष्माकमपि नैकट्ये प्रत्यासन्ने परलोकप्रयाणकं परलोकगमनं मरणमित्यर्थः, वर्तत इति गम्यते, [अतो] धर्मसम्बलंधर्मपाथेयमादायगृहीत्वा प्रगुणैः प्रद्वैः किं न भूयते ? भवद्भिरिति गम्यते । धर्मसम्बलयुक्ता हि तत्र न सीदन्ति यत-उक्तं
'धम्मं जिणपणियं घणु, जे संवल कर लेंति।
ते परलोयपयाणडे, पहिय न दुत्थिय होंति ॥१॥ इति श्लोकार्थः ॥१६॥
किञ्च स्वप्रयोजननिष्ठेषु सत्त्वेषु केयं बन्धुबुद्धिरित्यावेदयन्नाह
स्वकार्यासिद्धित: क्रुद्धः, पुत्र: शत्रूयतेतराम् । अतो बन्धुरबुद्धीनां, बन्धुबुद्धिरतात्त्विकी ॥१६७॥
स्वकार्यासिद्धित: स्वप्रयोजनाऽनिष्पन्ने क्रुद्धो रुष्टः पुत्र :सूनुः शत्रूयते शत्रुरिवाचरति, अतोऽस्मात्कारणाद्वन्धुरबुद्धीनां सुन्दरमतीनां बन्धुबुद्धि: स्वजनबुद्धिरतात्त्विकी अपारमार्थिकीति श्लोकार्थः ॥१६७।।
किंबहुनाऽपि शोचितेन ? न कोऽपि गुण: सम्पद्यते, इति दृष्टान्तद्वयेनाह
युगादिदेवनिर्वाणे, सह शक्रेण चक्रिणा। भरतेनं भूरिशब्देन, रुदता रोदिता मही ॥१६८॥ तथापि वालितो नैव, तेन स्नेहवतापि हि। श्रीमदादिजिनाधीशः, सर्वलोकैकबान्धवः ॥१६९।। पुत्राणां मरणं श्रुत्वा, द्विजादाकस्मिकं नृपः । प्रभुः प्रभूतमेदिन्याः, सगरः शोकविह्वलः ॥१७०।।
१पत्ति पयत्ति न देवि घण, जे संबलु कर - BJVI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org