SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अधिकार: ७ / श्लोक १५३-१६५ / शोकत्यागोपदेशः २०३ समं च तुल्यं च वर्तते चेष्टते येन कारणेन समवर्ती भण्यते कथ्यते तेन प्रकारेण निर्गुणस्यापि गुणरहितस्यापि मृत्योरयं गुण: समवर्तित्वलक्षण इत्युक्तम् । तथा च मेहाण जलं चंदाण चंदिमं दिणयराण करपसरो। मरणं इट्ठवियोगो, सामन्नं सयललोयस्स॥१॥ इति श्लोकार्थः ॥१६॥ अथात्यन्तशोककारिजनानुपालम्भयन् श्लोकत्रयमाह आसतां बहवस्ताव-देकैकस्यापि देहिनः । येऽतीताः पितरस्तेषां, सङ्ख्यां कः कर्तुमीश्वरः ? ॥१६२॥ रे मूढाः ! किं समारब्धं, रुद्यते यदहर्निशम् । मृत: किं कोऽपि नो दृष्टः ?, 'स्वगृहे परगृहेऽपि वा ॥१३॥ आगच्छद्भिर्विगच्छद्धि-र्जीवैः कर्मकदर्थितैः । न कदापि हि शून्यैषा, घोरा संसारवर्तिनी ॥१६३॥ आसतां तिष्ठन्तु बहवः प्रभूतास्तावदिति क्रम एकैकस्यापि देहिन: शरीरिणो येऽतीता: पूर्वकाले मृताः पितरो जनकास्तेषां सङ्ख्यां परिमाणं कः ? न कोऽपीत्यर्थ: कर्तुं विधातुमीश्वर: समर्थ इति ॥१६२।।। रे! इत्युपालम्भे आमन्त्रणे वा, इत्यादि सुगममिति श्लोकत्रयार्थः ॥१६३-१६४॥ अथोत्तममध्यमजघन्यजना यद्विदधति तथा दर्शयन्नाह पण्डिता नैव शोचन्ति, मुश्चन्त्यश्रूणि मध्यमाः । नीचास्त्वर्थप्रदानेन, रोदयन्ति रुदन्ति च ॥१६५॥ पण्डिता विवेकिनो नैव शोचन्ति शोकं न कुर्वन्ति, महत्यपि शोकस्थान इति गम्यते, मुञ्चन्त्यश्रूणि नयनवारिबिन्दून मध्यमा अविदितसंसारस्वरूपाः, नीचा निर्विवेकास्तु पुनरर्थे, अर्थप्रदानेन इष्टे विनष्टे [अर्थं] द्रव्यं दत्त्वान्यान् रोदयन्ति स्वयं च रुदन्तीति श्लोकार्थः ॥१६५॥ १BJP| स्वगृहेऽन्यगृहे-मु.॥ २ संख्यापरि BPJC II Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy