________________
२०२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
शोकाधिकारः ७
अस्य चायमभिसम्बन्ध:, अनन्तरं संसारासारता भणिता । अभावितसंसारस्वरूपास्तु शोकेनाबध्यन्ते तदपनोद इहोच्यते।
अथ शोकाधिकार उच्यते, तत्र श्लोकाष्टकं तावदाह
अज्ञातभववरस्या:, कील्यन्ते शोकशकुना। अतस्तदपनोदार्थं, किश्चिदेवोपदिश्यते ॥१५३॥ स्वबन्धुनाशे जीवानां, हृदयं शोकशकुना। कील्यते कुशलस्यापि, निर्विवेकस्य किं पुन: ? ॥१५४॥ तथापि निष्प्रतीकारे, सर्वसाधारणे सदा। किमर्थं क्रियते शोको, मरणे समुपागते ॥१५५॥ सममेव प्रवृत्तानां, गन्तुमेकत्र पत्तने । यद्येकः पुरतो याति, का तत्र प्रतिवेदना ? ॥१५६॥ शोकोऽपि युज्यते कर्तु, स्वस्य वा तस्य वा गुणम् । यदि कुर्यात्कृत: किंचि-तो चेदेष निरर्थकः ॥१५७॥ आयातः स कुतोऽपीह, स्थित्वाऽहानि कियन्ति च । न ज्ञायते गत: क्वापि, का तत्र प्रतिबन्धधी: ? ॥१५८॥ यथैकत्र द्रुमे रात्रा-वुषित्वा पक्षिण: प्रगे। दिशो दिशं प्रयान्त्येव-मेकगेहेऽपि जन्तवः ॥१५९।। शक्रचक्रिसहस्राणि, राजरङ्कशतानि च। मूर्खपण्डितलक्षाणि, क्षुण्णानि समवर्तिना ॥१६०॥
अज्ञातभववैरस्या अविदितसंसारनैर्गुण्या: कील्यन्ते नियन्त्र्यन्ते शोकशङ्कुना शोककीलेन, अत: कारणात्तदपनोदार्थं शोकापनयनार्थं किञ्चित् स्तोकमुपदिश्यते उपदेशो दीयते, इति प्रथमश्लोकार्थः, शेषश्लोकसप्तकं सुगममेव ॥१५३-१६०॥ अथ मृत्योः समवर्तित्वलक्षणमुपदर्शयन् श्लोकमेकमाह
समं च वर्तते येन, सर्वेषां प्राणिनामयम् ।
'समवर्ती भण्यते तेन, निर्गुणस्याप्ययं गुणः ॥१६॥ १ BJP | समवर्युच्यते-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org