________________
अधिकार ६ श्लोक | १५१-१५२ / कुबेरसेनादृष्टान्त: (१८ नातरां)
२०१
अत: श्रावकधर्मो मे, सुकर: प्रतिभासते । तेदेनमेव मे देहि, कृत्वानुग्रहमञ्जसा ॥१७५।। तत: सम्यक्त्वमूलं सा, पञ्चाणुव्रतसंयुतम् । सप्तशिक्षाव्रतोपेतं, गृहिधर्मं सदुत्तमम् ॥१७६।। ददौ तस्यै विधानेन, सापि जग्राह भावत: । द्रव्याद्यभिग्रहांश्चैवं, प्रतिपन्ना तदन्तिके ॥१७७॥ गृहीत्वा ब्रह्मचर्यं च, यद्भुवनेऽपि दुष्करम् । पालयन्ती प्रयत्नेन, कामभोगेषु नि:स्पृहा ॥१७८॥ सस्पृहा मोक्षसौख्येभ्यः, सदनुष्ठानतत्परा । संसारवासनिर्विण्णा, गमयति स्म वासरान् ॥१७९॥ तत: कुबेरदत्तापि, साध्वी साध्वीसमन्विता। तत्रत्यभूरिलोकांनां, कृत्वानुग्रहमुत्तमम् ॥१८०॥ कुर्वन्ती चन्द्रिकेवोच्चै-भव्यकैरवबोधनम् । परोपकारताहेतो-विजहार महीतले ॥१८॥
एनां समाकर्ण्य कुबेरसेना-वक्तव्यतां भव्यविवेकदात्रीम् । निरस्य नि:शेषभवाभिनन्दितां, सुसाधुधर्मे कुरुतादरं जनाः ॥१८२॥
उक्त: संसारासारताधिकारः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org