________________
२००
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अमेध्यभुग्गवामेके, पृष्ठभागं स्पृशन्ति च । गवां मूत्रं पिबन्त्यन्ये, ह्यन्ये पञ्चगवं तथा ॥१५२||
शुद्धयर्थं स्नान्ति तीर्थेषु, विशन्त्यन्ये हुताशने ।
तथापि नैव शुद्धयन्ति, विना दीक्षां जिनोदिताम् ॥१५३॥ किञ्च शौचं विना शुद्धि-र्जायते न कदाचन । सत्त्वाहिंसादिकं तच्च, यत: प्राहुर्मनीषिणः ॥१५४||
सर्वजीवदया शौचं, शौचं सत्यप्रभाषणं । अचौर्यं ब्रह्मचर्यं च शौचं सन्तोष एव च ॥१५॥ कषायनिग्रहः शौचं, शौचमिन्द्रियनिग्रहः । प्रमादवर्जनं शौचं, ध्यानं शौचं तथोत्तमम् ॥१५६॥ दुष्टयोगजयः शौचं, शौचं वरविवेकिता। तपो द्वादशधा चैव, शौचमाहुर्मनीपिणः ॥१५७॥ सर्वज्ञोक्तेन वृत्तेन, तत्सर्वं च दयादिकम् ।
शौचं सम्पूर्णमेवास्ति, सदान्तरात्मशुद्धिकृत् ॥१५॥ अथ कुबेरदत्तोऽपि, श्रुत्वा चैतत्तदन्तिके। जगाद संस्तुवन्नेवं, तां परमोपकारिणीम् ॥१५९।। त्वमार्ये! धर्ममातासि, त्वमेव मे सहोदरी । कल्याणमालिका मूला, त्वमेव मम सद्गुरुः ॥१६०।। अकृत्यागाधगर्तायां, दुर्गमायां निमज्जतः । दत्तो हस्तावलम्बो मे, त्वयैव हितकारिणि! ॥१६१॥ अकृत्यसेवनोपात्त-पापपङ्कमनन्तकम् । धर्मोपदेशन रेण, प्रक्षालितं त्वया मम ॥१६२।। त्वमज्ञानमहाध्वान्त-ध्वंसनैकरविप्रभा । कल्पपादपशाखेव, सङ्कल्पितफलप्रदा ॥१६३॥ समग्रसम्पदां मूलं, सर्वदोषविषापहम् । सद्विवेकस्फुरद्रलं, दत्तं मेऽद्य त्वयैव हि ॥१६४।। अतो मे तावकं वाक्यं, रुचितं हितभाषिणि! । ग्रहीष्येऽहमिमां दीक्षां, सर्वपापप्रणाशिनीम् ॥१६५॥ ततस्तां च प्रणम्यासौ, समुत्थाय च सत्वरम् । गत्वा गृहे निजं लोकं, समाकारितवानिति ॥१६६।।
ततस्तं सर्वमापृच्छय, सन्मान्य च यथोचितम्।
कृत्वा चास्य कुटुम्बस्य, सर्वस्यापि च सुस्थितम् ॥१६७।। धर्मस्थानेषु नि:शेषं, स्वं द्रव्यं विनियोज्य च । दीनादिभ्यो यथाशक्तया, दानं दत्त्वानुकम्पया॥१६८॥ तथा कुबेरसेनां च, भवनैगुण्यदर्शकैः । हितैः पथ्यैः प्रियैर्वाक्यैः सन्तोष्य च सविस्तरम् ॥१६९॥ इत्यादि सकलं कृत्वा, कृत्यं तत्समयोचितम् । मित्रपुत्रकलत्रादौ, स्नेहं मोहं विमुच्य च ॥१७०॥ ततो जग्राह सद्दीक्षां, सर्वं सङ्गं विमुच्य स: । तथाविधसुसाधूनां, समीपे समतायुतः ॥१७१॥ अथ कुबेरसेनापि, तद्वियोगेन दुःखिता। अनुभूतश्रुतसंसार-नानारूपविडम्बना ॥१७२॥ तस्या: कुबेरदत्ताख्य-व्रतिन्याश्चरणान्तिके । नित्यं शुश्राव सद्धर्म, सर्वं कल्याणकारकम् ॥१७३।। अन्यदा सा बभाणैवं, यतिधर्मोऽतिदुष्करः । नाहमेनं क्षमाकर्तुं, गेहवासाभिनन्दिता ॥१७४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org