________________
अधिकार ६ श्लोक / १५१-१५२ / कुबेरसेनादृष्टान्त: (१८ नातरां)
तव पितापि यो वत्स!, स मे भ्राता पिता पति: । ममायं श्वशुरश्चैव, भवत्येव न संशयः ॥१२॥ येयं ते जननी वत्स!, माता श्वश्रूः स्वसा मम । सपत्नी भ्रातृजाया च भवत्येषा सुनिश्चितम् ॥१२४|| इत्थमुल्लापयन्ती तं, बालकं च मुहुर्मुहुः । श्रुत्वा कुबेरदत्तोऽपि, तदन्तिकमुपागतः ॥१२५॥ उवाच च यथार्ये! त्वं, किमित्येवं प्रभाषसे । वचनानि विरुद्धानि, मदीयं पुत्रकं प्रति ॥१२६॥ एवमुक्ता सती सापि, तं प्रत्याह प्रबुद्धधीः । विरुद्धं नैव भाषेऽहं, धर्मशीला कदाचन ॥१२७॥ यन्मया भाषितं भद्र!, तदेतत्सत्यमेव हि । यथा च सत्यमेवेदं, तथाकर्णय कथ्यते ॥१२८॥ तत: प्रकथ्य वृत्तान्तं, मूलत: सर्वमेव हि। बभाण नात्रकाणां च, सा सम्बन्धाभिधित्सया ॥१२९॥ येनाहं जनताध्यक्षं, परिणिन्ये त्वया किल । तेनायं मे शिशुः पुत्रो, भवतीत्यवगम्यताम् ॥१३०॥ मम मातुः सुतो येन, तेन भ्राता भवत्ययम् । येन पुत्रो मम भ्रातु-स्तेन मे भ्रातृजोऽपि हि ॥१३१॥ येन भ्राता मम भर्तु-स्तेनायं देवरो मम । इत्येतैरेष सम्बन्धी, चतुर्भिर्मम नात्रकैः ॥१३२॥ पितापि पुनरेतस्य, मातुर्मे येन नन्दनः । तेनायं भवति भ्राता, येनोढा तेन मे पतिः ॥१३३॥ सपत्न्या जात इत्येष, पुत्रो मे तेन बालकः । मन्मातुर्येन भायं, जनकोऽपि च तेन मे ॥१३४।। माता या बालकस्यास्य, माता सैव ममापि हि- येनैष जननीभर्तु-स्तेन श्वश्रूरियं मम ॥१३५।। येन भ्रातुश्च भार्येयं, भ्रातृजाया च तेन मे । येन भार्या च मे भर्तुः, सपत्नीयं ततो मम ॥१३६॥ तत: कुबेरदत्तोऽपि, समाकर्ष्यार्यिकावच: । अत्यन्तं खेदमापन्न-श्चिन्तयामास मानसे ॥१३७॥ अरेरेऽहं महामूढो, महादुष्कृतकारकः । पापानामप्यहं पापो, जघन्यानां जघन्यकः ॥१३८|| यन्मयेदमकर्तव्यं, लोके शास्त्रे च निन्दितम् । मातर्यपि महापापं, महापापेन सेवितम् ॥१३९॥ अहो ह्यज्ञानमूढेन, कामाकुलितचेतसा । कृतं कुकर्म कीदृक्षं, मया दुर्गतिगामिना ॥१४०॥ एवंविधदुराचार-घोरावर्जितकर्मण: । मन्ये श्वभ्रेऽपि नैवास्ति, निवासो निघृणस्य मे ॥१४१॥ केनोपायेन नो जाने, लोकधर्मविरोधिनः । अमुत: पातकाद् घोरा-च्छुद्धिर्मम भविष्यति ॥१४२॥ एवमात्मानमत्यन्तं, निन्दन्तं पापभीरुकम् । कुबेरदत्तमार्यापि, वचो भूयोऽब्रवीदिदम् ॥१४३॥ किं त्वं महानुभावैवं, खेदं वहसि मानसे । यतस्ते सर्वमेवेदं, जातमज्ञानदोषत: ॥१४४॥ अज्ञानान्धितबुद्धीनां, यजीवानां विडम्बना: । भवन्त्येवंविधा घोरा-स्तदत्राहो किमद्भुतम् ॥१४५॥ कृत्याकृत्यमजानाना, जीवा अज्ञानदोषत: । हिंसादिभ्यो न कुर्वन्ति, विनिवृत्तिं कदाचन ॥१४६॥ अनिवृत्ताश्च ते तेभ्यो, विदधत्यसमञ्जसम् । तस्मादज्ञानत: सर्वा, जीवानां हि विडम्बना ॥१४७।। यत्त्वया चिन्तितं भद्र!, पातकादमुत: कथम् । शुद्धिर्जायेत मे तत्र, तवोपाय: प्रकथ्यते ॥१४८।। सर्वेषामपि पापानां, प्रव्रज्या शुद्धिकारिका । जिनोदिता तत: सैव, कर्तव्या शुद्धिमिच्छता ॥१४९।। ददति ब्राह्मणादिभ्य, एके पापविशुद्धये । गोदानं स्वर्णदानं च, भूमिदानान्यनेकधा ॥१५०॥ आत्मशुद्धयर्थमेवान्ये, कारयन्ति क्रतूनपि । जुहृत्यग्नौ पशूस्तत्र, ह्यश्वादींश्च सहस्रशः ॥१५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org