________________
१९८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
व्यवहरन्नसौ तत्र, विविधक्रयविक्रयैः । प्रभूतमर्जयामास, द्रव्यं पुण्यानुभावत: ॥१५॥ अथ कुबेरसेनाख्यां, वेश्यामपश्यदन्यदा । ख्यातकीर्तिं स्वकामेव, जननीं पूर्ववर्णिताम् ।।९।। ततस्तस्या: स्वरूपत्वा-त्कामाकुलितमानस: । काले गच्छति तामेव, चक्रे च स्वपरिग्रहे ॥९७॥ तत्रैव विदधत्सर्वं, भोजनस्नपनादिकम् । पुत्रमुत्पादयामास, तस्यामेव स्वमातरि ॥९८॥ इतश्च-अथ कुबेरदत्तापि, वसति स्म पितुर्गृहे । कुर्वन्ती धर्मकार्याणि, यथाकामं यथाबलम् ॥१९॥ तमेव निजवृत्तान्तं, चिन्तयन्ती दिवानिशम् । संसारस्य च वैरस्यं, भावयन्ती क्षणे क्षणे ॥१०॥ शुश्राव सुव्रताख्याया, गणिन्याश्चरणान्तिके । सर्वज्ञभाषितं धर्मं, भावत: प्रतिवासरम् ॥१०१।। अन्यदा जातवैराग्या, संसारोच्छेदकारणम् । गणिन्या: सुव्रताख्याया: समीपे व्रतमाददे ॥१०२।। तत: श्रुतमधीयाना, संवेगातिशयादियम् । षष्ठाष्टमादिकं तेपे, तपस्तीव्र सुदुष्करम् ॥१०३॥ एवं सर्वां प्रकुर्वन्त्याः, सामाचारी यथोदिताम् । संसारसारतां चैव, भावयन्त्या विशेषतः ॥१०४॥ वर्धमानशुभात्यन्त-परिणामातिरेकत: । क्षयोपशमतश्चैव, सदाचरणकर्मणः ॥१०५॥ तस्या: कुबेरदत्तायाः, विशिष्टगुणहेतुकम् । अवधिज्ञानमुत्पन्नं, रूपिवस्तुप्रकाशकम् ॥१०६॥ तेन प्रलोकयन्ती च, भारतं क्षेत्रमञ्जसा । क्रमेणोपयुजे सर्वं, मथुरा नगरी प्रति ॥१०७॥ ददर्श भ्रातरं तत्र, कलत्रीकृतमातरम् । बालवत्सं तयोरेव, पुत्रं चाचिन्तयत्ततः ॥१०८॥ अहो! सुरौद्रमज्ञानं, महादुःखौघकारणम् । महाविडम्बनाहेतु-महामूलं महापदाम् ॥१०९।। अज्ञानोपहता जीवा, न बुद्धयन्ते हिताहितम् । हेयोपादेयतां चैव, धर्माधर्मस्वरूपताम् ॥११०॥ भक्ष्याभक्ष्यादिकं वस्तु, पेयापेयादिकं तथा । कृत्याकृत्यविभागं च, गम्यागम्यं शुभाशुभम् ॥१११।। अज्ञानेन हि जीवानां दीर्घ: संसारसागर: । दीर्घा कर्मस्थितिश्चैव, दीर्घा दुःखपरम्परा ॥११२॥ अज्ञानादेव कुर्वन्ति, जीवा: कर्मातिनिघृणम् । गोहत्यां भ्रूणहत्यां च, स्त्रीहत्यां ब्रह्मघातनम् ॥११३।। जल्पन्ति च मृषावादं, परद्रव्यं हरन्ति च । परदारांश्च सेवन्ते, लुभ्यन्ति च परिग्रहे ॥११४।। भक्षयन्ति च मांसानि, मद्यानि च पिबन्त्यलम् । भुञ्जते च दिवारात्रौ, पशुवन्नियमं विना ॥११५॥ तस्मादज्ञानमेवेह, सर्वानर्थप्रवर्तकम् । शिष्टसंमतनि:शेष-व्यवहारस्य बाधकम् ॥११६॥ एवं विचिन्त्य सा चित्ते-ऽनुज्ञाप्य मंणिनी तथा । क्रमेण सह साध्वीभि-जगाम मथुरां पुरीम् ॥११७|| तत: कुबेरसेनाया, गेह एव गतस्मया । ययाचे सर्वदोषौघ-विनिर्मुक्तमुपाश्रयम् ॥११८॥ दत्तस्तयापि सानन्दं, निरवद्य उपाश्रयः । तस्थौ तत्रैव सा तुष्टा, तत्प्रतिबोधहेतवे ॥११९॥ अन्यदा च रुदन्तं तं, वीक्ष्य स्वभ्रातृपुत्रकम् । गत्वा वेगेन तद्देशे, जग्राह करसम्पुटे ।।१२०॥ तयो: समक्षमेवैनं, निवेश्याङ्के निजे तत: । एवं प्रोवाच सा वाक्यैः, परस्परविरोधिभिः ॥१२१।।
यथा त्वं मम पुत्रोऽसि, भ्राता च मे सहोदरः ।। भ्रातव्योऽसि च मे वत्स!, मम त्वं देवरोऽसि च ॥१२२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org