________________
अधिकार ६ श्लोक / १५१ - १५२ / कुबेरसेनादृष्टान्त: (१८ नातरां )
ततः शब्दादिविद्यानां, ग्रहणाय युगं ततः । पुष्पालङ्कारवस्त्राद्यैः प्रविभूषितविग्रहम् ॥६६॥ श्रेष्ठभ्यां कृतपूजस्य, वरवस्त्रफलादिभिः । एकस्यैव च सानन्द - मुपाध्यायस्य ढौकितम् ॥६७॥ एकत्रैव प्रयत्नेन, गृह्णत: सकलाः कलाः । परां कोटिं समारूढा, तस्य (तयोः) प्रीति: परस्परम् ॥ ६८ ॥ एवं स्नेहानुरक्तस्य, पठतः क्रीडतस्तथा । क्रमेणोपात्तविद्यस्य, सञ्जातं नवयौवनम् ॥६९॥ अथ महेश्वरेणोक्तं, पश्याहो यक्षदत्तक! । परस्परमिदं युग्मं, जातं प्रेमानुरक्तकम् ॥७०॥ अयं कुबेरदत्ताख्यः, पुत्रस्तेऽतीववल्लभः । मत्पुत्रिकावियोगेन, प्राणानुज्झति निश्चितम् ॥७१॥ इयं कुबेरदत्तापि, मत्पुत्री बन्धुवत्सला । निजात्मनो वियोगेन, नूनं प्राणैर्विमुच्यते ॥७२॥ तो यक्षदत्तात्र, सङ्गतमिदमेव हि । अन्योन्यमनयोरेव, यद्विवाहो विधीयते ॥ ७३ ॥ | अथानन्दितचित्तोऽसौ, यक्षदत्तोऽब्रवीदिदम् । साधु साधु त्वया प्रोक्तं, श्रेष्ठिस्तत्क्रियतामिति ॥७४॥ ततश्चोभयसंमत्या, निजकापत्ययोस्तयोः । कारितं सर्वसामग्रचा, पाणिग्रहणमङ्गलम् ॥७५॥ अथैवं तिष्ठतोस्तत्र, सम्पादितविवाहयोः । अन्योन्यं परमप्रेम - तन्तुभिर्बद्धचेतसोः ॥७६ || नित्यं नानाप्रकाराभि:, क्रीडाभिः क्रीडतोरलम् । सम्पद्यमाननि:शेष-तुङ्गभोगोपभोगयोः ॥७७॥ अखण्डसुखसन्दोह-समुद्रान्तर्निमग्नयोः । अतियान्ति तयोः कालः, स्वर्गे स्वर्गौकसामिव ॥७८॥ अन्यदा द्यूतसक्ताभ्यां, ताभ्यां ग्रहणके किल । सञ्चारिते स्वनामाङ्के, स्वे मुद्रिके परस्परम् ॥७९॥ ततः कुबेरदत्तोऽसौ ददर्शाथ कथञ्चन । सत्कां कुबेरदत्ताया- स्तां नामाङ्कितमुद्रिकाम् ॥८०॥ ततो विचिन्तयामास, यथेयं ननु मुद्रिका । मन्मुद्रिकासमानैव, वर्णाङ्कघटनादिभिः ॥ ८१ ॥ भाव्यं च कारणेनात्र, ननु केनापि निश्चितम् । अतः पृच्छामि गत्वाहं, वृत्तान्तं पितरं निजम् ॥८२॥ सञ्चिन्त्यैवं निजे चित्ते, द्यूतक्रीडां विमुच्य च । गत्वा पितुः समीपेऽसौ, तं वृत्तान्तमपृच्छत् ॥८३॥ यक्षदत्तोऽपि निर्बन्धं, ज्ञात्वा तस्यानिवर्तकम् । मूलादारभ्य निःशेषं, तं वृत्तान्तं न्यवेदयत् ॥८४॥ ततः श्रुत्वा पितुः पार्श्वे, सर्वं व्यतिकरं निजम् । पाणिग्रहणपर्यन्तं, मञ्जूषादर्शनादिकम् ||८५ ॥ स एवं चिन्तयामास, नूनमेषा मम स्वसा । भार्याभावोऽपि नैवास्या - मभून्मम कदाचन ॥ ८६ ॥ इदमेव सुन्दरं जातं, यदकृत्यं न सेवितम् । मया मोहविमूढेन, सहोदर्या तया सह ॥ ८७ ॥ अहो दुरन्त एवायं, घोरः संसारसागरः । यन्मध्यवर्तिनः सत्त्वाः प्राप्नुवन्ति विडम्बनाम् ॥८८॥ मातापि वत्सला भूत्वा भार्या यत्र प्रजायते । भार्याऽपि मातृभावेन, धिक्संसारविडम्बनाम् ॥८९॥ स्वसा भूत्वा जनी यत्र, जनी भूत्वा स्वसा भवेत् । माता सुता सुता माता, यत्रासौ निर्गुणो भवः ॥ ९० ॥ एवमादि विचिन्त्यासौ, संसारासारतां गतः । गत्वा कुबेरदत्तायाः, सर्वमाख्यद्यथा श्रुतम् ॥ ९१ ॥ उक्तवांश्च यथा भद्रे!, खेदं चेतसि मा कृथाः । यत ईदृश एवायं, नानानर्थभृतो भवः ॥९२॥ इत्यादिभिः प्रियैर्वाक्यै -र्भववैरस्य दीपकैः । प्रतिबोध्य पितुर्गेहे, प्रेषयामास तामसौ ॥९३॥ ततश्च पितरं पृष्ट्वा, द्रव्योपार्जनहेतवे । कृत्वावशेषसामग्रीं, जगाम मथुरां पुरीम् ॥९४ ||
1
For Private & Personal Use Only
Jain Education International
१९७
www.jainelibrary.org