________________
१९६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तयावाचि करिष्यामि, जननि! तावकं वच: । किन्तु प्रपालयाम्येत- त्कतिचितद्दिवसानहम् ॥३८॥ दशाहोत्सवमेतस्य, तावदम्ब! करोम्यहम् । पश्चाच्च पूरयिष्यामि, सर्वांस्तव मनोरथान् ॥३९॥ एवं तर्हि विधेहीति, प्रतिपन्ने तया तत: । तदपत्ययुगं सापि, पालयामास यत्नतः ॥४०॥ समग्राभीष्टसम्पत्त्या, हृद्यैर्मितहिताशनैः । पालयन्त्यास्ततस्तस्या, दिनानां दशकं गतम् ॥४१॥ अथाकारि तयोः कृत्यं, दशाहोत्सवसम्भवम् । सर्वं सर्वजनानन्द-कारकं सुमहर्द्धिकः ॥४२॥ तत: कुबेरदत्तेति, नामाकं मुद्रिकाद्वयं । कारयित्वा तया बद्धं, कण्ठे बालकयोस्तयोः ॥४३॥ ततश्च चारुमञ्जूषा, प्रत्यग्रा प्रगुणीकृता । विस्तीर्णमध्यभागोरु-विन्यस्तमृदुतूलिका ॥४४॥ तूलिकोपरि तद्युग्मं, शायितं च ततस्तया। अश्रुपातं विमुञ्चन्त्या, वरवस्त्रसमावृतम् ।।४५।। ततश्च पिहितद्वारा, सा मञ्जूषा सुसंवृता । नीरन्ध्रीकृतसर्वाङ्गा, तालिका बद्धशृङ्खला ॥४६|| ततश्चासौ समुत्पाट्य, नीत्वा पुम्भिः कृतादरैः । यमुनायां महानद्यां, सन्ध्याकाले प्रवाहिता ॥४७॥ वीचिवन्नीरपूरेण, महावेगप्रवाहिणा । उह्यमानाथ सा प्रात: प्राप्ता सौरिकपत्तने ॥४८॥ अथ शरीरचिन्तार्थ-मागतौ सरितस्तटे । सौरिकपुरवास्तव्यौ-श्रेष्ठिनौ श्रेष्ठचेष्टितौ ॥४९॥
नाम्नैको यक्षदत्ताख्यो, महेश्वराभिधोऽपरः ।
नदीतीरोपकण्ठं च, यावच्छौचार्थमागतौ ॥५०॥ तावत्तौ नीरपूरण, प्रेर्यमाणां मनोहराम् । दृष्टवन्तौ नदीमध्ये, मञ्जूषां ममुगामिनीम् ।।५१।। समीक्षमाणयोरेव, तयोस्तत्र सकौतुकम् । हस्ताभ्यासे क्षणादेव, वेगेनैव समाययौ ॥५२॥ ततस्ताभ्यां धृता शीघ्रं, गच्छन्ती करपल्लवैः । नीताच तीरदेशे सा, तथोद्घाट्य निरीक्षिता ॥५३॥ ततोऽवलोकितं ताभ्यां, तन्मध्ये बालकद्वयम् । कङ्केल्लिपल्लवच्छायं, सुकुमारशरीरकम् ॥५४॥ देहोद्भूतप्रभाजालै-रुद्योतयद्दिशो दश । कुर्वद्रूपातिरेकेण, लोकानां लोचनोत्सवम् ॥५५॥ ततो महेश्वर: प्राह, तद्रूपाक्षिप्तमानस: । भोः श्रेष्ठिन्! पश्य पश्येदं, सुन्दरं डिम्भकद्वयम् ॥५६॥ अहो लावण्यसम्पूर्णो, रूपवानेष दारकः । अहो समग्रसौन्दर्य-राशिरेषापि दारिका ॥५७।। अथोक्तं यक्षदत्तेन, केनापीदं समुज्झितम् । म्रियतामापदं वापि, प्राप्नुयादिति वाञ्छया ॥५८॥ अतोऽनयोर्गृहाणैकं, यत्तव प्रतिभासते । गृह्णाम्यहं द्वितीयं तु, श्रेष्ठिन्! यत्त्वं विमुञ्चसि ॥५९|| ततो महेश्वर: प्राह, बालिका मे भवत्विति । बालकं त्वं गृहाणेम-मेवमस्त्विति सोऽवदत् ।।६०॥ तल्लाभहृष्टसन्तुष्टौ, लात्वा तड्डिम्भयुग्मकम् । तदालोकनतनिष्ठौ, गतौ गेहे निजे निजे ॥६१॥ दारको यक्षदत्तेन, स्वभार्यायै समर्पित: । अयं पुत्रस्तवेत्युक्त्वा, यत्नत: पाल्यतामिति ॥६२॥ महेश्वरोऽपि सस्नेह-मर्पयामास दारिकाम् । गेहिन्यास्तव पुत्रीयं, यत्नेन प्रतिपालय ॥६३।। अथेदं वर्धते तत्र, धात्रीपञ्चकलालितम् । क्षीरपानाभिषेकाङ्क-धारणक्रीडनादिभिः ॥६४॥ सद्भोज्यैर्लेह्यपेयाथै- नालङ्करणादिभिः । तस्यैवं लाल्यमानस्य, वर्षाण्यष्टौ क्रमाद्ययुः ॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org