________________
अधिकार ६ लोक / १५१-१५२ / कुबेरसेनादृष्टान्त: ( १८ नातरां )
आसीत्तत्र विशालाक्षी, विदग्धा विदग्धप्रिया । नाम्नाकुबेरसेनेति, सुप्रसिद्धा विलासिनी ॥ या सर्वकामशास्त्रेषु, सकलासु कलासु च । निःशेषरतचेष्टासु, प्रावीण्यमधिकं दधौ ॥ ११ ॥ शृङ्गाररसभृङ्गारो, विलासरसकूपिका । सल्लावण्यपयः कुण्डं, सारसौन्दर्यमन्दिरम् ॥१२॥ सच्चन्दनद्रुमालीव, भुजङ्गौघनिषेविता । प्रावृट्कालनभः श्रीवद, धनोत्तु पयोधरा ॥१३॥ भुजङ्गराजराजीव, महाभोगविराजिनी । मीनकेतुपताकेव, जगन्मोहविधायिनी ॥१४॥ समग्रकामशास्त्रोक्ता-ऽऽलिङ्गनादिगुणव्रजे । सर्वातिशायिनैपुण्यं दधार चतुरानना ॥ १५॥ एवं वेश्याजने प्राज्यं, प्राधान्यं प्रवितन्वती । मान्या सा राजलोकस्य, पौरलोकस्य चाधिकम् ॥ १६ ॥ नरेन्द्रामात्यपुत्राद्यै-स्त्यागिभिर्भोगिभिः सह । भुञ्जाना सुन्दरान् भोगान्, निन्ये कालं यथासुखम् ॥१७॥ अन्यदा जठरे तस्या, गर्भः प्रादुरभूत्किल । तेनासौ वर्धमानेन, नितरां पीडिता सती ॥१८॥ स्वमातुः कथयामास, यथा मातर्ममाधुना । सञ्जाता दारुणां पीडा, जठरान्तः सुदुःसहा ॥ १९ ॥ तयाप्याशु समाहूय, वैद्यस्यासौ प्रदर्शिता । तेनापि क्षणमालोक्य, पृष्टं रोगस्य कारणम् ॥२०॥ यथेयं किं सदा भुङ्क्ते, पिबत्यम्बु च कीदृशम् ।
स्थाने वा कीदृशे शेते, व्यापारं वा करोति कम् ॥ २१ ॥
इत्यादि प्रश्निते कृत्स्ने, तेन वैद्येन मूलतः । माता कुबेरसेनाया - स्तस्मै सर्वं न्यवेदयत् ॥२२॥ ततश्चासौ परामृश्य, कराग्रेण समं ततः । सम्यक्सम्यक् तदुदरं, गर्भदोषमबुध्यत ॥ २३ ॥ ततो निश्चित्य तां पीडां, बभाणैवं भिषग्वरः । यथास्या जठरे पीडा, युग्मगर्भसमुद्भवा ||२४|| तस्मादस्यै ददामीदं, नानाद्रव्यं शुभौषधम् । मनाक् सञ्जायते येन, शरीरेऽस्याः सुखासिका ॥ २५ ॥ प्रदत्तं च तकं तेन, वैद्येन विधिपूर्वकम् । ईषत्कुबेरसेनाया, उपशान्ता च वेदना ||२६|| ततः सन्मान्य ताम्बूल-पुष्पादिवरवस्तुभिः । सस्नेहं सप्रणामं च, तया वैद्यो विसर्जितः ||२७|| ततश्च कुट्टिनी प्राह, यथा वत्से ! व्यथाकरम् । गालयामि प्रयोगेण, युग्मगर्भमिमं तव ॥ २८॥ अन्यथा तेऽस्य गर्भस्य, वर्धमानस्य दोषतः । अत्यन्तं दारुणा पीडा, भविष्यति सुदुःसहा ॥२९॥ अतोऽयं गायतां गर्भः, क्रियतां मामकं वचः । यद्यस्ति जीविताशा ते, नो चेत्पुत्रि ! विनङ्क्ष्यसि ॥ ३०॥ कुबेरसेनयापीदं श्रुत्वा मातुः प्रभाषितम् । दयार्द्रचित्तयाऽवाचि, माभाणीर्मातरीदृशम् ॥३१॥ महापातकमेतद्धि, विशिष्टजननिन्दितम् । यद्गर्भपातनं नाम, भ्रूणहत्येति तद्विदुः ॥३२॥ तस्मान्न गालयाम्येनं, गर्भं प्राणात्ययेऽपि हि । किं भूरिजल्पितेनाथ, यद्भाव्यं तद्भविष्यति ॥३३॥ अथोवाह तकं गर्भं, कुर्वन्तमपि वेदनाम् । दिवसेषु च पूर्णेषु, सासूत युगलं वरम् ॥३४॥ दारको दारिका चेति, सुरूपं डिम्भकद्वयम् । कदलीगर्भसंकाशं, सर्वावयवसुन्दरम् ॥३५॥ अथाभाणि हितार्थिन्या, जनन्या सा निजाङ्गजा । यथा डिम्भकयुग्मं ते, नेदं सुन्दरि ! सुन्दरम् ||३६|| यतस्ते जनिता तेन, गर्भस्थेनापि वेदना । अत्यन्तं दुःसहा वत्से !, तदिदं त्यज्यतामिति ||३७||
1
For Private & Personal Use Only
Jain Education International
१९५
www.jainelibrary.org