________________
१९४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
प्रमाद एव मदिरा सुरा तया मूढो विगतकृत्याकृत्यविवेको विचेता नष्टचित्त: नष्टसद्गतिर्नष्टसन्मार्गः, क:प्राणी पतितोनात्र संसारे व्यूढः प्रेरितो विषयवीचिभि: शब्दादिविषयकल्लोलै: ? अपि तु सर्वोऽपीत्यर्थः । तथा नानायोनिसमाकीर्णे अनेकजीवोत्पत्तिस्थानाकुले जीव: प्राणी [कर्मविनिर्मितां] कर्मनिष्पादितां त्रैलोक्यरङ्गे त्रिभुवनरङ्गभूमौ रङ्गश्च नर्तनस्थानं नटवनट इव धत्ते धारयत्यनेक[स्व]रूपतां नानाप्रकाररूपतामिति ।
एतदेव व्यनक्ति, क्वचिन्नारकभावेनेत्यादिश्लोकास्त्रय: सुखावबोधा एव, किञ्च संसारवर्तिनो जीवा: सर्वदा दुःखिताएवेति दर्शयन्नाह-प्रियाप्रयोजनेकेचिदित्यादि श्लोकास्त्रय: सुखावबोधा एव, तथा शरीरेषु सारताबुद्धिं निरस्यन्नाह-शुक्रशोणितसम्भूत इत्यादि, शुक्र पितु: सम्बन्धिरेत: शोणितं मातु: सम्बन्धिरक्तं, ताभ्यां सम्भूते निष्पन्ने सप्तधातुमलाश्रये त्वग्रक्तमांसमेदास्थिमज्जाशुक्रलक्षणमलस्थाने त्वङ्मात्राऽऽवृते छविमात्राच्छादिते पुंसां पुरुषाणां काये शरीरे का ? न काचिदित्यर्थ: रमणीयता रम्यत्वमिति, तथा रमणीया रम्या रमणी कामिनी या यका निगद्यत उच्यते काममोहितमनोभि: मदनव्यामोहितमानसैस्तस्या अपि चारुत्वेनाभिमताया अपि रमण्या: नि:सारं साररहितं पूतिमलगन्धि कुत्सितमलयुक्तम् शरीरकम् । अथोपसंहरन्नाह-संसारासारता येषामित्यादिश्लोकास्त्रय: सुगमा एव ॥१३५-१५२।।
कुबेरसेनादृष्टान्तः पुनरयं
अस्तीह भारते क्षेत्रे, धरारामावतंसकः । सर:सरित्पुरग्राम-विहारारामराजित: ॥१॥ सूरसेनाभिधो देशो, जनताऽऽनन्दकारकः । प्रमोदकारकानेक-वस्तुस्तोमसमाकुल: ॥२॥ बभूव तत्र विख्याता, कुबेरपुरसन्निभा । नित्यं पुण्यजनाकीर्णा, मथुरानाम सत्पुरी ।।३।। रेजुर्यत्र सपद्मानि, मनोहारीणि सर्वतः । मध्ये शुभ्रोच्चगेहानि, बहिश्चारुसरांसि च ॥४॥ प्रियालपनसाराणि, सुमन:शोभितानि च । यत्रान्त: साधुवृन्दानि, काननानि बहिर्बभुः ।।५।। परं प्रार्थयते लोकं, यत्र साधुजनो भृशम् । दुःखैरेव गुणो यत्र, दोषाय खलु कल्प्यते ।।६।। गुणस्य बाधिका वृद्धि-यंत्रेष्टा शब्दशासने । आगमस्यापि नित्यत्वं, यत्र तत्रैव सम्मतम् ॥७॥ स्त्रीलोचनेषु लोलत्वं, कृशत्वं यदि विग्रहे । पक्षपात: पतङ्गेषु, पत्रचिन्ता च योषिषु ॥८॥ कामिनां दूतसञ्चारो, रात्रेर्दोषाभिधेयता । भ्रूलतासु विलासिन्या:, कौटिल्यं यत्र बिभ्रति ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org