________________
अधिकार ६ / श्लोक १३५-१५२ / संसाराऽसारतास्वरूपम्
१९३
'चिन्तितान्यपिजीवा.... ॥१४७।। शुक्रशोणितसम्भूते, सप्तधातुमलाश्रये । त्वमात्राऽऽवृते पुंसां, काये का रमणीयता ? ॥१४८॥ रमणीया रमणी या, निगद्यते काममोहितमनोभिः । तस्या अपि निस्सारं, शरीरकं पूतिमलगन्धि ॥१४९।। संसारासारता येषा-मेषा नो मनसि स्थित्ता। . भ्रमन्ति ते सदा त्रस्ता, भवारण्ये मृगा यथा ॥१५०॥ जनयित्री जनी यत्र, जनी च जतिका जायते । कुबेरदत्तया दत्तो, दृष्टान्तोऽत्र जिनागमे ॥१५१॥ संसारासारतामेनां, विभाव्य निजमानसे। ते धन्या येऽत्र संसारे, कुर्वते न रतिं जनाः ॥१५२॥
इति श्लोका अष्टादश प्राय: पाठसिद्धा एवं, तथापि किञ्चिद्व्याख्यायते । तत्र यौवनं जरयाऽऽघ्रातमिति तरुणत्वं वृद्धत्वेन क्रोडीकृतं, रूपं रोगैरभिद्रुतमिति सुगम, जीवितं यमराजस्य वशवर्तीत्यायुष्कं मृत्योरायत्तम्, अत: कारणात् क्व सारता, न कुत्रापीत्यर्थः । पर्वता अपि शीर्यन्ते इति श्लोक: सुगम: एवं सांसारिका: सर्वे भावा:, इत्येवममुना प्रकारेण सांसारिका: संसारोद्भवा: सर्वे समस्ता भावा: पदार्था वैरस्य हेतव इति विरसताकारणं रम्भास्तम्भोपमा इति कदलीस्तम्भसदृशा: प्रायो नि:सारा इति प्रायेण साररहिता: क्षणभङ्गुरा इति क्षणविनश्वराः।
जीवेनानन्तश: क्षुण्णे इत्यादिश्लोकास्त्रयः, तत्र कः प्राणी पतितो नात्र व्यूढो विषयवीचिभिरिति सम्बन्धः, जीवेन जन्तुनाऽनन्तशोऽनन्तवारान् क्षुण्णे व्याप्ते चतुर्गतिगतागतैरितिनारकतिर्यनरामरलक्षणे गतिचतुष्टये गमनागमनैः, तथाऽपि तेनापि प्रकारेणानन्तकृत्व: परिभ्रमणलक्षणेनाप्राप्तावसाने अनादौ आदिरहिते भवसागरे संसारसागरेऽलब्धान्त:परिस्पन्देऽप्राप्तमध्यविभागे, दुःखश्वापदसङ्कुले अशर्मदुष्टजलचरजीवाकुले, व्याधिजन्मजरामृत्युवारिवारभयङ्करे इति व्याधिजन्मजरामृत्यव एव वारिवारो जलवातस्तेन भयङ्करे भयानके, प्रमादमदिरामूढ इति।
१ इदं तु ध्येयं-मु. JP मध्ये नास्त्ययं लोक: BC प्रत्योरेतावान् एव पाठः दृश्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org