________________
१९२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
संसारासारताऽधिकारः ६
उक्त: सन्तोषाधिकारः, अथ संसाराधिकार: षष्ठ: प्रारभ्यते, अस्य चायमभिसम्बन्ध: पूर्व सन्तोषवतां प्रशंसा कृता, सन्तोषत्वं च संसारासारताभावानात एव जायते । इत्यत: संसारासारताऽत्र प्रोच्यते । इत्यनेन सम्बद्धोऽयं व्याख्यायते, तत्रैते श्लोका:
यौवनं जरयाऽऽघ्रातं, रूपं रोगैरभिद्रुतम् । जीवितं यमराजस्य, वशवर्ति क्व सारता ? ॥१३५॥ पर्वता अपि शीर्यन्ते, शुष्यन्ति च जलाशयाः । यत्र तत्रान्यवस्तूनां, सारता कुत्र कल्प्यते ? ॥१३६॥ एवं सांसारिकाः सर्वे, भावा वैरस्य हेतवः । रम्भास्तम्भोपमाः प्रायो, निस्सारा: क्षणभङ्गुराः ॥१३७॥ जीवेनानन्तशः क्षुण्णे, चतुर्गतिगतागतैः । तथाप्यलब्धपर्यन्ते, ह्यनादौ भवसागरे ॥१३८॥ अलब्धान्त:परिस्पन्दे, दुःखश्वापदसङ्कले । व्याधिजन्मजरामृत्यु-वारिवारभयङ्करे ।।१३९॥ प्रमादमदिरामूढो, विचेता मष्टसद्गतिः । कः प्राणी पतितो नात्र, व्यूढो विषयवीचिभिः ।।१४०॥ नानायोनिसमाकीर्णे, जीवः कर्मविनिर्मिताम् । त्रैलोक्यरङ्गे नटव-द्धत्तेऽनेकस्वरूपताम् ॥१४१।। क्वचिन्नारकभावेन, क्वचित्तिर्यग्योनिकः । क्वचिच्च जायते मो, दिवि देव: कदाचन ॥१४२।। क्वचिद्राजा क्वचिद्रङ्कः, क्वचिदुःखी क्वचित्सुखी। क्वचिनिन्द्यः क्वचिद्वन्द्यः, क्वचिद् ज्ञानी क्वचिज्जडः ॥१४३॥ सुरूप: सुभग: क्वापि, कुरूपो दुर्भग: क्वचित् । - क्वचिद द्वेष्यः प्रियः क्वापि, जीवो जगति जायते ॥१४४॥ प्रियाप्रयोजने केचि-त्केचिच्चापत्यचिन्तया। नीरोगताकृते केचित्, केचिद्धनजिगीषया ॥१४५॥ खिद्यन्ते सर्वदा जीवा ! असम्पूर्णमनोरथाः । रागद्वेषग्रहग्रस्ता, विवदन्त: परस्परम् ।।१४६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org