________________
अधिकार ५ / श्लोक १३४ / सन्तोषे ताराचन्द्रकथा
१९१
रुद्धशब्दं रुदन्ती सा, लोचने गलदश्रुणी। बिभ्रती वक्तुमारब्धा, यथेयं मम पुत्रिका ॥१३८॥ प्राणेभ्योऽपि प्रिया वत्स!, दत्ता मदनमञ्जरी । आकृष्टयुवभृङ्गौघा, ह्याम्रद्रोरिव मञ्जरी ॥१३८॥ भद्रेण भवता भाव्यं, भद्रिकाया विशेषत: । प्रतिकूलेऽनुकूला ये, स्वल्पास्ते सज्जना जना: ॥१३९।। मयि स्नेहो न मोक्तव्य-स्ताराचन्द्र! सदा त्वया । यत्प्रतिपन्ननिर्वाहं, कुर्वन्ते विरला जनाः ॥१४०॥
उक्तं च-बहुवल्लहे वि कय-विप्पिए वि अन्नत्य बद्धरागे वि।।
. जंमि मणो न नियत्तइ, सो नेहो परिचओ सेसो ॥१४॥ ताराचन्द्र ! चिरं जीव, यावच्चन्द्रदिवाकरौ । स्मर्तव्याऽहं सदाकालं, वत्से ! मदनमञ्जरी ॥१४२॥ इत्युक्ते दम्पती पोते, समारूढौ जनाकुले। पोतोऽपि गन्तुमारब्धो, गरुत्मानिव वेगतः ॥१४३॥ स्तोकैरेव दिनैस्तूर्णं, पूर्वपुण्यानुभावत: । प्राप्तो जलनिधेस्तीरे, पुरे-तारापुराभिधे ॥१४४॥ नानाक्रयाणकाकीर्णं, श्रुत्वा तं पोतमागतम् । आनन्दितो नराधीशो, नागरिको जनस्तथा ॥१४५।। ततस्तीरे धृत: पोतो, लम्बिता नङ्गरा द्रुतम् । उत्तीर्णश्च तत: पोता-ताराचन्द्रो भटान्वितः ॥१४६॥ तत: पणाङ्गनावृन्दैः, सानन्दैः कृतमङ्गल: । अनेकैन्दिवृन्दैश्च, स्तूयमानगुणोत्करः ॥१४७॥ मानयन्मान्यलोकौघं, नमनीयान्नमन्नसौ । सम्भाषयंश्च सम्भाष्यान्, दानं ददत्तदर्थिनाम् ॥१४८॥ सम्प्राप्तो निजगेहं च, बद्धबन्धुरतोरणम् । निजस्यबन्धुवर्गस्य, सोत्कण्ठो [च] मिमिल सः॥१४९॥ पुष्पताम्बूलवस्त्राद्यैः, सन्मानितो निजो जनः । गतश्च निजके स्थाने, ताराचन्द्रविसर्जित: ॥१५०॥ कृत्वा स्नानादिकं कृत्यं, ताराचन्द्रोऽपि सत्वरम् । गृहीत्वा प्राभृतं प्राज्यं, जगाम नृपमन्दिरम् ॥१५१॥ दृष्टो राजा ततस्तस्मै, दौकितं प्राभृतं तथा। प्रोक्तश्च निजवृत्तान्त:, स्वपोताऽऽगमनादिकः ॥१५२॥ उच्छुल्कश्च कृतो राज्ञा, ततो वेलाकुले गतः । उत्तारितं ततो भाण्डं, नीतं च निजमन्दिरे ॥१५३|| सर्वस्यापि स्वलोकस्य, दातव्यं च ददौ मुदा । ततोऽसौ बुभुजे भोगान्, प्रमोदभरनिर्भरः ॥१५४॥ सार्धं निजकभार्याभ्यां, पूर्णाखिलमनोरथ: । [धर्मध्यानरतो नित्यं, सन्तोषैकमना: खलु] ॥१५५॥ विज्ञायेदमसन्तोषं, सर्वदा त्यज्यतां जनाः । विधीयतां च सन्तोषः, सर्वकल्याणकारकः ॥१५६।।
सन्तोषाधिकारः समाप्त:
पञ्चमोऽधिकारः समाप्त:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org