________________
१९०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ताराचन्द्रस्ततो ब्रूते, सत्यं सर्वमिदं नृप ! । गृह्णात्वयं निजं लभ्यम्, युष्माकं चरणाग्रतः ॥११०॥ ददातु प्रस्थकं मह्यं, नव्यानां मशकास्थ्नाम् । उत्तरानिलपूतानाम् खण्डितानामुदूखले ॥१११॥ ततो दातुमशक्तेन, जजल्पे श्रेष्ठिना वच: । विजितोऽहं महाभाग!, जयस्त्वयि व्यवस्थितः ॥११२॥ राजाध्यक्षं मया मुक्त; सभा सर्वात्र साक्षिणी। ततो मन्त्री समाहूत-स्तदा सोऽपि समागतः ॥११३॥ विनम्य च महीनाथं, निषसादोचितासने । भणितो भूमिपालेन, मन्त्रिन् ! मन्त्रो न सुन्दरः ॥११४|| विवाद: केन कार्येण, सञ्जातो वणिजा सह। साधयागतमात्रेण किञ्चानेन विनाशितम् ? ॥११५॥ व्यवहारनिरोधोऽपि, सहसैव कथं कृत: ? । कथितं किं नन: कार्यम्?, स्वच्छन्द इव लक्ष्यसे॥११६।। मन्त्र्याह श्रूयतां देव, ! सावधानेन चेतसा । एकदाऽहं हताशेन, विधिना बाढं विडम्बित: ॥११७॥ इतो नीत: समाकृष्य, पुरे तारापुरेऽन्यदा। अस्य पित्रा समं तत्र, जातं मे सख्यमुत्तमम् ॥११८।। अन्यदा याचितो लक्षो, दत्तस्तेनापि सोञ्जसा । तस्मै ग्रहणके दत्तं, दक्षिणाक्षि निजं मया ॥११९॥ वयमत्र समायाता:, संहृत: सोऽपि वेधसा । एषोऽप्यत्रागतो दृष्टः, साम्प्रतं भणितो मया ॥१२०॥ दत्त्वा लक्षं जनाध्यक्षं, गृह्णऽहं दक्षिणेक्षणम्। व्यवहारोऽयं महाराज!, सम्मतो व्यवहारिणाम्॥१२१॥ राज्ञोक्तं शोभनं वक्ति, मन्त्री नीतिविचक्षण: । तदहो मन्त्रिणो दोषो, विद्यते नात्र वस्तुनि ॥१२२।। ताराचन्द्रस्तत: प्राह, सत्यमेतन्न संशय: । व्यवहारविलोपो हि, परिणामे न सुन्दरः ॥१२३॥ सन्ति प्रभूतलोकाक्षि-लक्षाणि ग्रहणे मम । तन्मध्यूमिलितं नैव लप्स्यते तव लोचनम् ॥१२४|| तदर्पयाक्षि मे वामं, तत्तुल्यं वीक्ष्य येन ते । आनीयं च जनाध्यक्षं, दीयते दक्षिणेक्षणम् ॥१२५॥ 'राजाह सङ्गतं वक्ति, ताराचन्द्रः सनीतिकम्। वामाक्षि मन्त्रिणा देयं, लभते येन दक्षिणम्॥१२६।। तत: सञ्जातखेदेन, चिन्तितं काणमन्त्रिणा । अहो मे मूर्खता येन, दीर्घ दृष्टं न चेतसा ॥१२७॥ अथ सङ्कटमायातं, लोकनीतिरियं पुन: । सर्वनाशे समुत्पन्ने, ह्यर्धं त्यजति पण्डित: ॥१२८॥ निर्जितोऽहं महाभाग!, बुद्धिस्ते भद्र ! भद्रिका। राजाध्यक्षं मया मुक्तो, व्यवहारं निजं कुरु ॥१२९॥ चर्मकार: समानीतो, भयभीतमना नरैः । ब्रूहि रे वणिग्भाण्डस्य, व्यापार: किं निवारित: ? ॥१३०॥ तेनापि कथितं सर्वं, यत्कृतं यच्च भाषितम् । सभ्यैरभाणि निर्दोष-श्चर्मकारोऽपि लक्ष्यते ॥१३१॥ ताराचन्द्रोऽप्युवाचेदं, मायामय ! निशामय । यच्च लोकान्मयाऽश्रावि, वचो विस्मयकारकम् ॥१३२॥ रत्नसारनरेन्द्रस्य, निष्पुत्रस्य सुतोऽजनि । तेन तुष्टो जन: सर्व-स्त्वं तुष्टः किं न कथ्यताम् ? ॥१३३।। स प्राह सुतरां तुष्ट-स्तर्हि याहि निजे गृहे। न ते किंचिच्च दातव्यं, परितोषो हि वेतनम् ॥१३४॥ ताराचन्द्रो नरेन्द्रस्य, प्रणम्य पदपङ्कजम् । पाशत्रयविनिर्मुक्तो, व्यवहारपरोऽजनि ॥१३५।। स्वल्पेनापि च कालेन, विक्रीतं वणिजा निजम् । भाण्डं [च] भूरिलाभोऽपि, लब्ध: पुण्यानुभावतः॥ दृष्टो राजा भृत: पोत:, प्रतिभाण्डस्य सर्वत: । गत्वा मकरदंष्ट्रापि, पृष्टा गमनहेतवे ॥१३७|| १ BJPC | श्लोकोऽयं मुद्रिते नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org