________________
अधिकार ५ / श्लोक १३४ / सन्तोषे ताराचन्द्रकथा
१८९
विवाहमङ्गलान्यत्र, प्रतीतानि निदर्शनम् । [असत्यान्यपि लोकानां, जायन्ते प्रीतिहेतवे] ॥८२॥ अथोद्गतो दिनाधीश-स्ताम्रचूडैर्ववासिरे । उत्थाय स्वक्रिया: कर्तुं, समारब्धो जनस्ततः ।।८३॥ ताराचन्द्रोऽपि वेगेन, निर्गतो रविमन्दिरात् । गतो वेश्यागृहे तोषात्, किञ्चिदुत्फुल्ललोचन: ।।८४॥ ततोऽसौ रात्रिवृत्तान्तं, पृष्टो मकरदंष्ट्रया। तेनापि कथितः सर्वो, यथा दृष्टो यथा श्रुत: ॥८५॥ स तया भणितो भद्र!, तथा कार्यं त्वयाधुना । यथा श्रुतं द्विजस्यान्ते, जयो येन प्रजायते ॥८६॥ एवमुक्त्वा गता वेश्या, पुरतो राजमन्दिरे । दृष्टा पृष्टा च भूपेन, किमागमनकारणम् ? ||८७॥ तयोक्तं देव! कार्येण, समयश्चेन्निवेद्यते । अनुज्ञाता नरेन्द्रेण, वेश्या वक्तुं प्रचक्रमे ॥८८॥ हाहा कष्टं महीनाथ !, महत्खेदस्य कारणम् । कुतोऽपि वणिज: कोऽपि, पोतेनात्र समागतः ॥८९॥ श्रेष्ठिना मन्त्रिणा चैवं, तथा चर्मकरेण च । विनापि कारणं नाथ ! निर्नाथ इव खेद्यते ॥१०॥ द्वीपस्य नगरस्यास्य, तवापि च महीपते! । अकीर्तिमहती तेन, स्वामिन् ! विज्ञप्यसे मया ॥९१॥ श्रुत्वेदं भूभुजाऽभाणि, रे रे नगररक्षक ! । गत्वा तं वणिज लात्वा, शीघ्रमागच्छ मत्पुरः ॥९२।। सोऽपि शीघ्रं समादाय, सम्प्राप्तो नृपतेः पुरः । पुण्यानुभावतस्तस्य, सानुकूलो नृपोऽजनि ॥१३॥ नत्वा नृपं निषण्णोऽसौ, सानन्दं वीक्ष्य भूभुजा। पृष्टस्त्वं कुत्र वास्तव्य:, ? किमानीतं त्वया वद ।।९४।। तेनापि कथितं सर्वं, यथावृत्तं महीभुजे । तत: श्रेष्ठी समाहूतो, भूमिपालेन सत्वरम् ॥९५॥ । आयातस्तं तथा दृष्ट्वा, जात: साशङ्कमानस: । विनम्य च महीनाथं, निषण्णश्चोचितासने ॥१६॥ रोषारुणितनेत्रेण, साक्षेपं धरणीभृता । भणितो भण्यसे किंचि-लोभनन्दे ! निशामय ॥९७।। हे श्रेष्ठिन् ! श्रेष्ठकर्माणि, कुर्वन् श्रेष्ठी निगद्यते । शेषस्तु नामत: श्रेष्ठी, भण्यते न तु कर्मत: ॥९८॥ किमराजमिदं स्थानं, न्यायो वाऽत्र न लभ्यते? । येन सर्वाणि कार्याणि, क्रियन्ते स्वेच्छया त्वया॥९९।। दिगागतवणिजा सार्धं, विवाद: केन हेतुना ? । किं कुकर्म कृतं तेन ? किञ्चानेन विनाशितम्॥१००। श्रेष्ठयाह श्रूयतां देव!, सावधानेन चेतसा । आतिथेयीं क्रियां कर्तु-मस्यावासे गता वयम् ॥१०१।। संलापपूर्वकं पृष्टा, वयमेतेन साञ्जसम् । किमस्ति नास्ति वा मित्र !, भाण्डानामत्र निर्गम: ? ॥१०२।। मयोक्तं दीर्घकालेन, ततो विषादिचेतसा । श्यामितास्येन संलप्त-मनेनेदं मुहुर्मुहुः ॥१०३।। शीघ्रं निर्गममिच्छामो, न चिरं स्थास्नवो वयम् । मयाप्यागतचित्तेन, भणितो भद्र ! साम्प्रतम् ।।१०४१॥ अस्त्युपाय: परं मित्र !, भवते यदि रोचते । यत्किञ्चिद्रोचते तुभ्यं, प्रतिभाण्डं तत्प्रस्थकम् ॥१०५॥ भृत्वा शीघ्रं प्रयच्छामि, ततस्ते भाण्डनिर्गम: । प्रतिपन्नमनेनापि, सत्यङ्कारश्च ढौकित: ॥१०६॥ विधृता: साक्षिणो लोका, भाडं दृष्टयाहतं कृतम् । संव्यवहारमुद्रेति निषिद्धा भाण्डविक्रये ॥१०७।। न चौर्यं छलनं नैव, व्यवहारो मया कृत: । यद्यस्यापि 'निषिद्धोऽस्ति, वणिम्वर्गो गतस्तदा ॥१०८॥ राजाह सङ्गतं ब्रूते, श्रेष्ठी न्यायानुगं वच: । श्रेष्ठिना लभ्यमेवेदम्, यद्ययं मन्यते वणिक् ॥१०९।। १ BPC | निषेधोऽस्ति वणिग्धर्मो गतस्तदा-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org