________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अन्यदा च तया पृष्टः, कस्त्वं कस्मादिहागतः ? । ततस्तस्यै स्ववृतान्तः, सर्वस्तेन निवेदितः ॥५५॥ तयोक्तं विपदेषा ते, परं खेदो न सङ्गतः । आपदः सम्पदश्चैव, समीपस्था: शरीरिणाम् ||५६ || एवमुक्त्वा गता तूर्णं, कुट्टिनी भानुमन्दिरे । ततस्त्रिलोचनं भट्टं, प्रणम्योवाच सा यथा ॥५७॥ समयोऽस्ति न वा विप्र !, पृष्टव्यं मम किञ्चन । स प्राह समयो दत्त - श्चर्मकृच्छ्रेष्ठिमन्त्रिणाम् ॥५८॥ एवं विज्ञाय सा सर्वं, कुट्टिनी स्वगृहे गता । जामाता भणितो वत्स !, स्वल्पं हि व्यसनं तव ॥ ५९ ॥ यामिन्याः प्रथमे यामे, व्यतीते रविमन्दिरे । प्रच्छन्नीभूय तिष्ठ त्वं, श्रृण्वन् श्रेष्ठयादिजल्पितम् ॥६०॥ तेनापि च कृतं सर्वं, यथादिष्टं तथैव तत् । ततः श्रेष्ठी समायातो, यामिन्या: प्रहरे गते ॥ ६१ ॥ छात्रेणाभाणि कर्णान्ते, लोभनन्दिः समागत: । प्रवेशय द्रुतं वत्स !, द्वाररक्षापरो भव ॥ ६२ ॥ प्रविश्य श्रेष्ठिना भानु-रुपाध्यायश्च वन्दितः । आख्याय पूर्ववृत्तान्तं, श्रेष्ठिनेदं प्रजल्पितम् ॥ ६३ ॥ निरूपय निजां होरा, निर्वाहो भविता न वा । निरूप्य भणितं तेन, भद्र ! होरा न भद्रिका ॥ ६४ ॥ यदि वक्ष्यत्यसौ देहि, 'प्रस्थकं मशकास्थ्नाम् । उत्तरानिलपूतानां खण्डितानामुदूखले ॥ ६५ ॥ तदा ते सङ्कटं मन्ये, मौनमेवात्र सुन्दरम् । श्रेष्ठी प्राह किमीदृक्षी, बुद्धिस्तस्य भविष्यति ॥ ६६ ॥ इत्युक्त्वाऽथ गतः श्रेष्ठी, ततो मन्त्री समागत: । छात्रेणावेदितः सोऽपि प्रविष्टो भानुमन्दिरे ॥६७॥ भानुमन्तं नमस्कृत्य, नतो भट्टस्त्रिलोचनः । ततश्चाभाणि तेनैव - माशीर्वादपुरस्सरम् ॥६८॥ नन्दमन्त्रिन् ! धनवान् भव ।
I
निषसाद ततो मन्त्री, लब्धाशी: शुद्धभूतले । कथितश्च स्ववृत्तान्तो, यो कृतो वणिजा सह ॥६९॥ युष्मत्पादप्रसादेन, कल्याणं समुपस्थितम् । निरूपय निजां होरां, चित्तनिर्वृत्तिहेतवे ॥७०॥ विभाव्य भणितं तेन, सखेदेन द्विजन्मना । अपूर्वं यदि कल्याणं, मन्त्रिन् ! होरा न सुन्दरा ॥ ७१ ॥ तेनोचे त्वत्प्रसादेन, सर्वं सुस्थं भविष्यति । इत्युक्त्वा च गतो मन्त्री, चर्मकारः समागतः ॥७२॥ छात्रेण भणितः सोऽपि, प्रविष्टो रविमन्दिरे । दूरस्थेन ततो भानुः, शिरोनमनपूर्वकम् ॥७३॥ उपाध्यायोऽपि तेनैव, क्रमेणानेन वन्दितः । विप्रः प्रोवाच भो भद्र !, किमागमनकारणम् ? ॥७४॥ सोऽवग् मयि कृपां कृत्वा, श्रूयतां कथयाम्यहम् । मया स्वबुद्धियोगेन, वचनच्छलनात्तथा ॥७५॥ ताराचन्द्राभिधः श्रेष्ठी, छंलितः साम्प्रतं किल । तत्प्रश्नार्थमहं नूनं, सम्प्राप्तो युष्मदन्तिके ॥७६॥ सुप्रसादं मनः कृत्वा, स्वामिन्! होरां निरूपय । विभाव्य भणितं तेन, रे ! रे ! होरा सुन्दरा ॥७७॥ यदि वक्षत्यसौ श्रेष्ठी, रत्नसारस्य भूपतेः । अपुत्रस्य सुतो जात - स्तेन तुष्टो जनोऽखिलः ॥७८॥ त्वं तु तुष्टोऽथवा नेति, चर्मकार ! निवेदय । यदि ब्रूषे न सन्तुष्ट - स्ततो भूमिपतेर्भयम् ||७९|| सन्तुष्टश्चेद्धनं नैव, लभ्यं सन्तोष एव हि । तत् श्रुत्वा चर्मकारोऽपि, निरानन्दो गतो गृहे ॥८०॥ विप्रस्य निष्ठुरैर्वाक्यै - दूमितो मानसे यतः । वचसोऽनुकूलात्तुष्टि - रसत्यादपि जायते ॥ ८१ ॥
I
१ प्रस्थकं मसकास्थां-BC | प्रस्थकं मसकस्थनां - P। प्रस्थकं मशकस्थिनां - JI मे मशकास्थिप्रस्थकं - मु. ॥
१८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org