________________
अधिकार ५ / श्लोक १३४ / सन्तोष ताराचन्द्रकथा
१८७
साक्षिणो विहिता लोका, भाण्डं दृष्ट्याहतं कृतम् । आगत: स्वगृहे श्रेष्ठी, प्रमोदभरनिर्भरः ॥२७॥ अहो ! मे धन्यता येन, परश्री: स्ववशे कृता। द्वितीययामे यामिन्या, मन्त्री लोभपरायणः ॥२८॥ ताराचन्द्रान्तिकं प्राप्तो, निषण्णो बृहदासने । भणितो मन्त्रिणा श्रेष्ठिं-स्ताराचन्द्र! निशम्यताम् ।।२९॥ एकदा दण्डितो राज्ञा, कारागारे प्रवेशित: । कथञ्चिदन्तरं लब्ध्वा, नष्टोऽहं जीविताशया ॥३०॥ मुच्यमानो मया दृष्टः, पोत: पुण्यैः पुराकृतैः । तेनोत्तीर्य द्रुतं प्राप्त:, पुरे तारापुराभिधे ॥३१॥ तत्रापि मन्दिरे गत्वा, तावकीने चिरं स्थित: । अन्यदा भणितं राज्ञा, लक्षे दत्ते न ते भयम् ॥३२।। मयापि त्वत्पितुः पार्था-ल्लक्षो निजकरे कृत: । लोकाध्यक्षं.मया मुक्तम्, ग्रहणे दक्षिणेक्षणम् ॥३३॥ लक्षं लात्वा समायात-स्तं दत्त्वा तोषितो नृपः । भूयोऽपि स्वं पदं लब्धम्, ते दरास्ते च मोचका: ॥३४॥ अद्य त्वं पुनरायातो, मम पुण्यैः प्रणोदित: । लात्वा लक्षं स्वकं भद्र!, देहि मे दक्षिणेक्षणम्॥३५॥ दत्ते च लोचने मह्यं, कर्तव्यो भाण्डविक्रय: । आहारे व्यवहारे च न लज्जा गुणकारिणी ॥३६॥ एवमुक्त्वा गतो मन्त्री, विषण्ण: पोतनायक: । चिन्ताचक्रसमारूढः, किङ्कर्तव्यसमाकुल: ॥३७॥ खिन्नोऽदीनमना: श्रान्तः, शून्यचेता: परिभ्रमन् । उपानत्सन्धनाहेतो-श्चर्मकारापणे गतः ॥३८॥ दृष्टो मायामयेनैष, चर्मकारेण लोभिना । नीत: सौरवं गेहे, निषण्णो वरविष्टरे ॥३९॥ पृष्टश्च केन कार्येण, यूयमत्र समागता: । श्रेष्ठ्याह वसन्धान-हेतवे वयमागताः ॥४०॥ चर्मकार: पुन: प्राह, किं मे दास्यथ वेतनम् । श्रेष्ठयाह किं विचारेण, कुरु कर्म निराकुल: ।।४१|| तोषवन्तं करिष्यामि, भवन्तं भूरिदानत:। 'वर्धसन्धानतस्तेन, प्रगुणा प्राणहिता कृता ॥४२॥ वेतने काकिणी दत्ता, न तुष्टश्चर्मकर्मकृत् । रूपकार्धं ततो द्रम्म, एवं यावच्छतं गतः ।।४३॥ सहस्रलक्षकोटीभि-स्तेन तोषमकुर्वता । भणितश्चर्मकारेण, श्रेष्ठिन् ! संस्मर जल्पितम् ।।४४|| तव पोतगते द्रव्ये, नि:शेषे मम मन्दिरे । प्रविष्टे यदि मे तुष्टिः, सन्तुष्टि न्यथा मम ॥४५।। ममाधीनं धनं सर्वं, भवान् कर्मकरो मम । न दातव्यं न भोक्तव्यं, रक्षणीयं प्रयत्नतः ॥४६॥ एवमुक्त्वा गतो गेहे, चर्मकार: प्रमोदभृत् । ताराचन्द्रो निजं स्थानं, गच्छन् श्रान्तः शनैः शनैः ॥४७॥ दृष्टो मदनमञ्जर्या, वेश्यया वरवेषया । निरूपितश्चिरं कालं, साभिलाषेण चक्षुषा ॥४८॥ दास्या स्वगृहमानीतो, ततो मकरदंष्ट्रया। स्नापितो भोजितो दत्त-ताम्बूल: सविलेपनम् ॥४९॥ नक्तं मदनमञ्जर्या, सह सुप्तोऽनुरक्तया । प्रभाते कथितं सर्वं, कुट्टिन्या तस्य हृष्टया ॥५०॥ यथैषा मे प्रिया पुत्री, नाम्ना मदनमञ्जरी । पुरुषद्वेषिणी भूत्वा, बभूव त्वयि तोषिणी ॥५१॥ तदिमां भवते दत्त्वा, सञ्जाताहं निराकुला। सुस्थितं जायते चेतो, योग्ययोगेन देहिनाम् ॥५२॥ उक्ता च सा यथा वत्से! त्वया भाव्यं विनीतया। विनयो हि कारणं येन, सर्वदा सर्वसम्पदाम्॥५३॥ एवं च वसतस्तत्र, वव्रजुभूरिवासरा: । स्वर्नाथस्येव सौधर्मे, सततं हृष्टचेतसः ॥५४॥ १BJPC | वर्धासन्धानतस्तेनोपानही प्रगुणीकृतौ-मु. ॥ २ BJPC | तोषमगच्छता-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org