________________
१८६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
ताराचन्द्रकथा
बभूव विश्वविख्यातं पुरं तारापुराभिधम् । कैलासपर्वताकारं, तुङ्गप्राकारवेष्टितम् ॥१॥ तत्राभवच्छ्रियां धाम, ताराचन्द्राभिधो वणिक् । ख्यातकीर्तिर्जने मान्य:, सुहृदानन्दकारकः ।।२।। तारप्रभा प्रिया तस्य, विनयादिगुणान्विता । प्रेमस्थानं परं चारु-शीलालङ्कारशालिनी ॥३॥ अर्थार्थिना महापोत-स्ताराचन्द्रेण चान्यदा । महाय॑भूरिभाण्डानां, भृतोऽन्यद्वीपयायिना ॥४॥ कृता सर्वापि सामग्री, सजीभूताश्च धीवरा: । समारूढाश्च नि:शेषा, वणिज: सुभटास्तथा ॥५॥ अथाशेषं निजं लोकं, सम्यक्सम्भाष्य सादरम्। विसर्जितवांश्च सन्मान्य, ताम्बूलादिभिरञ्जसा ॥६॥ अनेकभटसंयुक्त:, शुभालङ्कारधारकः । भूरिद्रव्यप्रदानेन, पूरितार्थिमनोरथः ॥७॥ गत्वा पोते समारूढो, बन्दिगीतयशास्तत: । हेलया हतसत्तूर्य-शब्दैरापूरिताम्बरः ।।८।। कृतपूजोपचारश्च, योषाभिर्गीतमङ्गल: । कृतकोलाहलो लोकै-यथास्थानस्थितप्रजः ॥९॥ छत्रच्छन्नमुखश्चारु-चामरैरुपवीजित: । उत्क्षिप्तनङ्गरो मुक्त-पोत: पूर्णमनोरथः ॥१०॥ शीघ्रं गन्तुं प्रवृत्तोऽसौ, पृष्टत: पवनेरितः । एष याति गतो दूरं, दृश्यते नैव लोचनैः ॥११॥ इत्युक्त्वा वलितो लोको, गतो निजनिजे गृहे । पोतोऽपि वायुवेगेन, लङ्घित्वा लघुसागरम् ॥१२॥ रत्नमेखलनामानं, द्वीपं प्राप्तस्ततो धृतः । पोतादुत्तार्य भाण्डानि, श्रेष्ठिना राशय: कृता:॥१३॥ यथास्थानं स्थितो लोकः, श्रेष्ठी जातो निराकुल: । भुक्तेऽपि ते निराबाधे, जाते पोतजनेऽखिले॥१४॥ पुरन्दरपुरावासी, लोभनन्दिरिति श्रुत: । वणिक् च नामत: श्रेष्ठी, कर्मत: पापकर्मकृत् ॥१५॥ अत्रैव च पुरे मन्त्री, काणो मायानिकेतनम् । वसति स्म दुराचारो, लोभसागरसंज्ञित: ॥१६॥ परद्रव्यापहारेच्छ:, सदा संक्लिष्टमानस: । तत्रास्ते चर्मकारोऽपि, मायामय इति स्मृतः ॥१७॥ तथान्यो लोकविख्यातो, मान्यो विप्रगुणान्वित: । आदित्यमन्दिरे तत्र, द्विजो विगतलोचनः ।। अविद्यमाननेत्रोऽपि, त्रिलोचन इति स्मृतः । होराबलेन' लोकानां दत्तादेशो विचक्षणः ॥१९॥ अथ बोहित्थमायातं, भूरिभाण्डसमाकुलम् । श्रुत्वानेकजनाकीर्णं, ताराचन्द्रं च तत्प्रभुम् ।।२०।। लोभनन्दिर्गतो रात्रौ, तदन्ते वञ्चनेच्छया। कृतोचितोपचारश्च, निषण्णो दर्शितासने ॥२१॥ कुशलं ते शरीरस्य ?, पृष्टोऽसौ लोभनन्दिना । पूर्वाभ्यासमिदं चैव, सुलभं सज्जने जने ॥२२॥ किं भाण्डं वा कियद्वापि, पृच्छतो मम कथ्यताम् । तेनापि कथितं सर्वं, प्राय: प्राञ्जलचेतसा ॥२३॥ शिरो विधूय तेनापि, सखेदमिव जल्पितम् । प्रयास एव ते जात: कुभाण्डानयनादिह ॥२४॥ यस्मादेतस्य नास्त्यत्र, ग्राहक: कोऽपि सर्वथा । परं तथापि गृह्णामि, कीर्तिभङ्गभयादहम् ॥२५॥ दास्यामि प्रस्थकं त्वेकं, तुभ्यं वाञ्छितवस्तुनः । प्रतिपन्नमनेनापि, सत्यङ्कारश्च ढौकित: ॥२६॥ १B। विसर्जितश्च-JP । विसृष्टवांश्च-मु. ॥ २ = निमित्तादिना-J पार्श्वे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org