SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८४ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके स्वस्त्यस्तु साम्प्रतं तुभ्यं, स्वस्थानं • समलङ्कुरु I [इत्युक्त्वा सोऽपि सम्प्राप, स्थानं स्वेष्टं तदा द्रुतम् ] ॥५४॥ साम्प्रतमाशापिशाचिकाया जयोपायं, तज्जये च सुखमुपदर्शयन्नाह - आशापिशाचिका नित्यं, देहस्था दुःखदायिनी । सन्तोषवरमन्त्रेण, स सुखी येन नाशिता ।। १३०॥ व्याख्या-आशापिशाचिका वाञ्छाव्यन्तरी नित्यं सर्वदा देहस्था शरीरस्था दुःखदायिन्यशर्मप्रदा सन्तोषवरमन्त्रेण नि:स्पृहतापरममन्त्रेणासावनिर्दिष्टनामा सुखी शर्मवान् येन केनचिन्नाशिता देहाद् दूरीकृता ॥ १३० ॥ असन्तुष्ट हि जन्तुर्भवभ्रमणे दुःखितो भवतीति दर्शयन्नाहचिन्ताचक्रसमारूढो, योगदण्डसमाहतः । कर्माष्टककुलालेन, भ्राम्यते घटवन्नरः ।। १३१ ॥ चिन्ताचक्रसमारूढो योगदण्डसमाहतो मनोवाक्कायलकुटाहतः कर्माष्टककुलालेन ज्ञानावरणीयादिकर्माष्टककुम्भकारेण भ्राम्यते भ्रमणशीलः क्रियते घटवत्कुम्भवन्नरो मानवोऽसन्तुष्ट इति गम्यते ॥१३१॥ ननु वाञ्छासद्भावेऽपि जन: सुखी भविष्यति कोत्र विरोध: ? इत्याशङ्कापनोदाय श्लोकद्वयमाहआतपच्छाययोर्यद्व-त्सहावस्थानलक्षण: । Jain Education International विकल्पमालारथाङ्गारूढो विरोधस्तद्वदत्रापि, विज्ञेयः सुखवाञ्छयोः ।।१३२।। वाञ्छा चेन्न सुखं जन्तो - स्तदभावे शर्म सन्ततम्- । न भूतानि न भावीनि, सुखानि सह वाञ्छया ।। १३३ ।। आतपस्तापश्च्छाया चातपाभावभाविनी तोर्यथा सहावस्थानलक्षण: सममवस्थितिस्वरूपो विरोधो विपर्ययस्तदा तद्वत्तथाऽत्रापि प्रस्तुते विज्ञेयो वेदितव्यः सुखवाञ्छयोः शर्मेच्छयोः ॥१३२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy