________________
अधिकार ५ / श्लोक १२९ / पिङ्गलाख्यानम्
१८३
ततस्तत्कौतुकं दृष्ट्वा, मया चित्ते विचिन्तितम् । सामिषस्य सदा दुःखं, सौख्यमामिषवर्जनात् ॥२८॥ ततो मया परित्यक्तः, समग्रोऽपि परिग्रहः । तेन तस्य परित्यागे, कुररोऽपि गुरुर्मम ॥२९॥ ततोऽग्रे गच्छता दृष्टः, सर्पः सर्वभयङ्करः । भूमिस्त्रीवेणिसङ्काश:, परवेश्मकृताश्रय: ॥३०॥ ततोऽचिन्ति मया चित्ते, सुन्दरं व्रतिनां व्रतम् । गृहारम्भो हि पापाय, दुःखाय च शरीरिणाम् ॥३१॥ तत: प्रभृति जस्तोऽहं, परकृताश्रमसेवकः । तत: परकृतावासे, सर्पो मे गुरुतां गतः ॥३२॥ क्रमेण गच्छता दृष्टं, काननं विपदाननम् । तत्र लातुं समारब्धा, लुब्धकैः पाशबन्धनैः ॥३३॥ वागुरासु विचित्रासु, सारङ्गास्त्रस्तलोचना: । 'पातिता न च ते पतिता, अप्रमत्ततया तया ॥३४॥ नानाविधैरुपायैस्तै-याधैर्हन्तुं समीहिता: । रक्षिता निजमात्रेव, निष्प्रमादतया तया ॥३५॥ अप्रमादप्रसादेन, जातास्ते चिरजीविन: । निर्विण्णमनसो व्याधाः, सविषादास्ततो गताः ॥३६॥ ततो मया विचिन्त्यैव-मप्रमादो हि सौख्यदः । कर्तुं युक्तो ममाप्येष, तथैव कृतवानहम् ॥३७॥ एवं मे गुरवो जाता:, सारङ्गास्तत्र कानने । अप्रमादविधौ भद्र!, सदा चकितचेतसः ॥३८॥ ततोऽग्रे गच्छता दृष्टः, इषुकार: पुराबहिः । शरव्रातमृजूकुर्व-निश्चलीकृतमानस: ॥३९॥ अत्रान्तरे समायातः, पुमानेकस्तदन्तिके । तेनोक्तं किं त्वया दृष्टो, गच्छन् राजामुना पथा ॥४०॥ स प्राह न मया दृष्टः, स्वकर्मैकाग्रचेतसा । ततो मैया व्यचिन्त्यैवं, न चायं विकलेन्द्रियः ॥४१॥ अथ चानेन नो दृष्ट-श्चतुरङ्गबलान्वितः । राजा गच्छन् समीपेन, महदेतत्कुतूहलम् ॥४२॥ यस्मात्स्वकार्यनिष्ठत्वा-देकचित्तैर्न दृश्यते । चलं वा स्थाष्णु वा वस्तु, समीपेऽपि शरीरिभिः ।।४३।। एकाग्रचेतसामेव, स्वार्थसिद्धिरपि ध्रुवम् । तन्मयापि मन: कार्य-मेकाग्रं धर्मचिन्तने ॥४४॥ तत: प्रभृति भो भद्र!, संयम्येन्द्रियपञ्चकम् । जयाजयफलं तस्य, ध्यानस्थश्चिन्तयेद्यथा ॥४५।। दिवसरजनिसारैः सारितं पक्षगेहम्, समयफलकमेतन्मण्डितं भूतधात्र्याम् । इह हि जयति कश्चिन्मोक्षमक्षैविधेयै-रधिगतमपि चान्ये विप्तैरियन्ति ॥४६॥ तदेकाग्रमनोध्याने, पञ्चेन्द्रियविनिग्रहे। इषुकारो गुरुर्जातो, ममैवमवधारय ॥४७॥ तथात्रैव पुरे दृष्टा, कण्डयन्ती कुमारिका । तण्डुलान् वलयाराव-खेदितश्रवणद्वया ॥४८॥ तत: सामुञ्चदेकैकं, वलयं शब्दशान्तये । तथापि तत्कृतारावो नोपशान्तो मनागपि ॥४९॥ ततो द्वे त्रीणि चत्वारि, न च शाम्यति तद्ध्वनिः । ततो विमुच्य शेषाणि, तदैकैकं धृतं तया॥५०॥ शान्त: शब्दस्ततस्तस्य, जाता चित्तस्य निर्वृति: । दृष्ट्वेदं सुखदा तेन, रुचितैकाकिता मम ॥५१॥ ततोऽहं बन्धुसम्बन्धि-मित्रवर्गं विमुच्य च । विचरामि सुखेनैव, सदैकाकी निराकुलः ॥५२॥ तदेवमेककत्वे मे, गुरुर्जाता कुमारिका । तदेवं मम भो भद्र! गुरव: षट् प्रजज्ञिरे ॥५३॥
१BI पातिता ते च न पतिता अE JP परं ते पतिता नात्र ह्यप्र मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org