________________
१८२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
इदानीं पिङ्गलाख्यानमुच्यते
अव्यक्तलिङ्गधारीह, नरः सन्तोषसुन्दरः । केनापि वणिजा पृष्टः, को गुरुस्ते निवेद्यताम् ॥१॥ पिङ्गला कुरर: सर्पः, सारङ्गास्त्रस्तलोचना: । इषुकारकुमारी च, षडेते गुरवो मम ॥२॥ श्रुत्वेदं वणिजा प्रोक्तं, गुरुरेकः शरीरिणाम् । महत्कौतुकमेतच्च, गुरव: षट् कथं तव? ॥३॥ सन्तोषसुन्दर: प्राह, सावधानमना: शृणु। एकस्यापि हि सञ्जाता, गुरव: षड् यथा मम ॥४॥ नानावर्णसमाकीर्णं, नानासौधसमाकुलम् । विशालशालसंयुक्तं, सुरसद्मविराजितम् ॥५॥ कामिनीम मञ्जीर-रवरञ्जितहंसकम् । समस्तमेदिनीपीठे, रम्यं रत्नपुरं पुरम् ।।६।। तत्राहं भाण्डमादाय, गतो वाणिज्यकर्मणे । वाणिज्यं कुर्वता दृष्टा, पिङ्गलाख्या विलासिनी ॥७॥ ततो जातानुरागोऽहं, संवसामि तया सह । वाणिज्ये प्रतला बुद्धि-स्तत्राऽऽसक्तस्य मेऽजनि ।।८॥ अन्यदाहं गृहे तस्या, अर्धरात्रे समागतः । यावत्सा पिङ्गला सुप्ता, निश्चिन्ता सपरिच्छदा ॥९॥ अहो सुखं स्वपित्येषा, कृतकृत्या इवाधिकम् । विचिन्त्यैवं क्षणं चित्ते, श्लोकोऽयं पठितो मया॥१०॥ आशा हि परमं दुःखं, निराशा परमं सुखम् । आशां निराशतां नीत्वा, सुखं स्वपिति पिङ्गला॥११॥ प्रभाते पुनरायात:, पृष्टा सा पिङ्गला मया। किं कारणं विशालाक्षि!, निशीथे तव मन्दिरम् ॥१२॥ दत्तार्गलं नि:शब्दं च, मया सुभु! विलोकितम् । यदि कथ्यं तदा शीघ्रं, मम साधय कारणम् ॥१३।। तयोक्तं साधयाम्येषा, निशामय निराकुल: । सज्जने कथितं कार्य, गुणायैव प्रजायते ॥१४॥ एकदा जागराद्वाढं, सञ्जाता मे विसूचिका । जाताह मरणावस्था, कष्टंकष्टेन जीविता ।।१५।। ततस्तदा मयाकारि, प्रतिज्ञेयं सुखावहा । आद्ययामद्वयादूर्ध्वं, स्वप्तव्यं निश्चितं सदा ॥१६॥ आद्यमेवं च यामिन्या, जागर्मि प्रहरद्वयम् । तत: सन्तुष्टचित्ताहं, नित्यं स्वपिमि सुस्थिता ॥१७॥ असन्तोषो हि दुःखाय, सन्तोष: सुखकारणम् । असन्तोषोपतप्तानां, सन्तोषो नन्दनं वनम् ॥१८॥ असन्तुष्टस्य यद्दुःखं, सन्तुष्टस्य च यत्सुखम् । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥१९|| आद्ययामद्वये जातं, यद्वित्तं तेन मे धृति: । एवं निश्चयमाधाय, तिष्ठामि सुखिता सदा ॥२०॥ तवापि सङ्गतश्चायं, सन्तोष: सर्ववस्तुषु । सुसन्तोषसमो बन्धु-र्न भूतो न भविष्यति ।।२१।। प्रतिपद्याथ तद्वाक्यं, धर्मे दत्त्वा निजं धनम् । ततो मया गृहीतं भोः, सुसन्तोषव्रतं परम् ।।२२।। स्थितस्तत्र सुसन्तुष्टः, कतिचिद्दिवसानहम् । एवं भो! मम सञ्जाता, सन्तोषे पिङ्गला गुरुः ॥२३॥ अन्यदा च तत: स्थाना-द्रच्छता बहिरीक्षितः । गृहीतमांसपेशीकः, कुरराख्यो विहङ्गमः ॥२४॥ हन्यमानस्तरां लुब्धैः, पक्षिभिर्मासभक्षिभि: । चण्डतुण्डाभिघातेन, सर्वैरपि समन्तत: ॥२५॥ कथञ्चिदैवयोगेन, मांसपेशी तदाननात् । पतिता भूतले क्वापि, गृहीता काकपक्षिणा ॥२६|| ततस्तं कुररं मुक्त्वा , सर्वे ते वायसं प्रति । धाविता: स पुनर्जात:, कुररो नितरां सुखी ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org