________________
अधिकार ५ / श्लोक १२९ / कपिलकेवलिकथा
१८१
युक्तः समितिभिर्नित्यं, सुगुप्तो गुप्तिभिस्तथा । क्षान्त्यादिसद्गुणोपेतः, सर्वशीलागधारकः ॥६६॥ षण्मासान्ते ततस्तस्य, ज्ञानमुत्पन्नमुत्तमम् । घातिकर्मक्षये जाते, लोकालोकावभासकम् ॥६७॥ इतश्च-अस्ति राजगृहस्येह, श्रावस्त्याश्च महापुर: । दुष्टश्वापदसङ्कीर्णा-पान्तराले महाटवी ॥६८॥ तस्यामिक्कडसज्ञानां, चौराणां शतपञ्चकम् । अस्त्येतत्प्रतिबोधार्थं, तदन्त: कपिलो गतः ॥६९।। दृष्टः शाखिगतेनैष, दस्युना मुनिपुङ्गवः । श्रमणोऽयं समायाति, शेषाणां च निवेदितम् ॥७०॥ ततस्ते तं समादाय, निन्युश्चौराधिपान्तिकम् । तेनापि स मुनिः प्रोक्तो, नृत्यतां नृत्यतां मुने ! ॥७१।। तेषां विज्ञाय स ज्ञान-चक्षुषा मोक्षकारणम् । इत्थमेव तत: प्राह, वादको भो! न विद्यते ॥७२॥ केलिना मिलिता: सर्वे, ताला: कुट्टन्ति दस्यवः । तेषां मध्यगत: साधु-ध्रुवकं गायतीदृशम् ॥७३॥
अधुवे असासयंमि, संसारंमि दुक्खपउराए । किं नाम होज्ज तं कम्मं, जेणाहं दुग्गइं न गच्छेज्जा ॥७४॥
[उत्तराध्ययनसू. ८/१]
एवं भगवतोद्गीते, तेऽपि गायन्ति दस्यवः । तालाश्च कुट्टयन्त्युच्चैः, सानन्दा: समचेतसः ॥७५॥ एवमुद्गीतिकाव्याजा-दनित्यत्वं प्रकाशयन् । सम्यसंबोध्य तान् सर्वान्, दीक्षयामास सन्मुनिः ।।७६।। ततस्ते साधवो जाता:, साधुसद्गुणधारिणः । जाता जातिस्मरा: सर्वे, सर्वे संविग्नमानसाः ॥७७॥ कालेन केवलज्ञानं, सर्वेषामुदपद्यत । ततश्च क्षीणकर्मीशा, ययुः सर्वे शिवालयम् ॥७८॥
इति कपिलाख्यानकं समाप्तम् ।
१- BJPC वस्त्रा-मु.। - वस्त्रJ पार्श्वे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org