________________
१८०
आचार्य श्रीवर्धमानसूरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
प्रार्थयामि ततो लक्षं, क्षितीशं वरदायिनम् । परोपकारकर्तृत्वे, लक्षमप्यक्षमं ततः ॥४५॥ कोटिं याचे सुवर्णस्य, दीनादेर्दानसाधिकाम् । हस्त्यश्वरथपादाति-साधने सापि नो सहा ॥४६।। चिन्तावीचिचयोत्क्षिप्त-लोभसागरमध्यग: । स्थित: सञ्चिन्तयन्नेवं, क्षणं सन्तोषवर्जितः ॥४७।। शुद्धत्वाज्जीवरूपस्य, चित्रत्वात्कर्मणां गते: । जज्ञे सज्ज्ञानसंयोग:, कपिलस्य ततो दृढः ॥४८॥ तत: सज्ज्ञानसंयोगा-च्चिन्तयामास तत्क्षणम् । अहो लोभस्य माहात्म्य-मपूर्वं दुःखकारणम् ॥४९।। यदि स्याद्रत्नसम्पूर्णो, जम्बूद्वीप: कथञ्चन । अपर्याप्त: प्रहर्षाय, लोभात्तस्य जिनैः स्मृतः ॥५०॥ अहो मया किमारब्ध-मज्ञानवशवर्तिना ? । विज्ञाय वचनं मातु-विद्यादातुश्च सुन्दरम् ॥५१॥ जाननपि यदासक्त: सामान्यायां स्त्रियामहम् । तदिदं सत्यतां नीतं, वचनम् मोहवर्तिना ॥५२॥
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाक्षेपमुक्ता: श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणा: पतन्ति ॥५३।। ताव फुरइ वेरग्गु, चित्ति कुललज्जवि तावहिं ताव । अकज्जहतणियसंक, गुरुयाणा वि भओ ताव ॥५४॥ ताविंदियह वसाई- जसहसिरि-हाइ तावहि । रमणीहिं मणमोहिणीहिं, पुरिस वसी होइ न जावहि ॥५५॥ सो सुकयकम्मु सो निउणमइ, सिवहमग्गि सो संघडिओ ।
परमोहणओसहिसरिसियहं, जो बालियहं न पिडि पडिओ ॥५६॥ तस्मादलं सुवर्णेन, विषयैरप्यलं मम । कृतं कान्ताप्रसङ्गेन, घोरसंसारहेतुना ॥५७॥ एवं चिन्तयतस्तस्य, जातिस्मरणमञ्जसा । संपन्नं शुद्धभावस्य, स्वयंबुद्धस्ततोऽजनि ॥५८॥ देवतादत्तलिङ्गोऽयं, स्वयं लुञ्चितकुन्तलः । प्रत्यक्षो धर्म एवैष, राजानं समुपस्थित: ॥५९॥ राज्ञोचे किं त्वयाचिन्ति, तत: सोऽपि न्यवेदयत । आत्मेच्छाविस्तरं सर्वं, नरेन्द्राय पठन्निदम् ॥६०॥ उक्तं च-जहा लाहो तंहा लोहो, लाहा लोहो पवड्ढइ ।
दोमासं कणयकज्ज, कोडीएवि न निट्ठियं ॥६॥ ददामि भद्र ! ते कोटिं, राज्ञोचे चारुचेतसा । मुनिनोक्तं मया सर्वम्, परित्यक्तं धनादिकम् ।।६२॥ यत:-अर्थानामर्जने दुःख-मर्जितानां च रक्षणे । आये दु:खं व्यये दु:खं, धिगर्थं दुःखकारणम् ॥६३॥ इत्यादिधर्ममाख्याय, कपिलाख्यो महामुनिः । विजहार महीपीठे, संयमी मुनिसत्तमः ॥६४॥ निर्ममो निरहङ्कारो, निरारम्भो निरालय: । नि:सहायो निराशंसो नि:सङ्गो निष्परिग्रहः ॥६५॥ १ BJPC । सरिसिय महिलाण पेम्मति नो पडिओ-मु. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org