________________
अधिकार ५ / श्लोक १२९ / कपिलकेवलिकथा
१७९
दाने यशसि शौर्ये च, यस्य न प्रथितं यशः । विदयायामर्थलाभे वा, मातुरुच्चार एव सः ॥२२॥
विद्याया: साधनानीह, विद्यन्ते मम मन्दिरे । केवलं भोजनं भद्र!, निर्धनत्वान्न विद्यते ॥२३॥ तानि चामूनि विद्यासाधनानि
आरोग्यबुद्धिविनयोदयमशास्त्ररागा, अभ्यन्तरा जगति पाठगुणा भवन्ति
आचार्यपुस्तकनिवाससहायवल्ला', बाह्याश्च पञ्च पठनं परिवर्धयन्ति ॥२४॥ तेनोचे भिक्षयित्वाहं, पठिष्ये भवदन्तिके । उपाध्यायस्तत: प्राह, वत्सैवं पठनं कुत: ? ॥२५॥ एवमुक्त्वा समं तेन, गतोऽसौ श्रेष्ठिनो गृहम् । शालिभद्राभिधानस्य, ततश्चैवमभाषत ॥२६॥ कौशाम्ब्या अयमायातो, विद्यार्थी सुहृदङ्गज: । तदस्य कुरु साहाय्यं, त्वमाहारप्रदानत: ॥२७॥ श्रेष्ठिनापि तकत्तोषा-त्प्रतिपन्नं गुरोर्वच: । भोजनाय ततस्तस्य, दासी तेन निरूपिता ॥२८॥ अधीते सोऽपि सानन्दो, हास्यशील: स्वभावत: । मोहयौवनसंवास-दोषात्संमूढमानस: ॥२९॥ कामस्य दुर्जयत्वाच्च, तस्यां दास्यां प्रलनवान् । अवोचदन्यदा सा तं, स्नेहेन रहसि स्थितम् ॥३०॥ यद्यहं सह केनापि, वस्त्रमूल्याय संवसे । सोढव्यं तत्त्वया कान्त!, यतस्त्वं तद्विवर्जित: ॥३१॥ एवमस्त्विति तेनापि, तद्वच: प्रतिपद्यते । सखेदा चान्यदा तेन, दृष्टा पृष्टा च कारणम् ॥३२॥ तयोचे सर्वदासीनां, मह: कल्ये भविष्यति । ताम्बूलादिविहीनाया, लाघवं भविता मम ॥३३॥ सोऽपि श्रुत्वा वचस्तस्या, विनिद्रो दुःखविह्वलः । अमुञ्चदीर्घनि:श्वासां-स्तदिच्छापूरणाशयः॥३४॥ उक्तं च- सीयंतपरियणन्भत्थियाण, पुरिसाण धणविहीणाण ।
न हु नवरि कायराणं, गरुयाणवि चलइ मइविहवो ॥३५॥ बभाण सा तत: कान्तं, गच्छ त्वं धनमन्दिरम् । प्रातरेव समुत्थाय, यतोऽसावग्रजन्मने ॥३६॥ द्वौ माषौ जातरूपस्य, प्रथमाय प्रयच्छति । मायासीदपर: कश्चि-दर्धरात्रेऽपि निर्गत: ॥३७॥ चौरोऽयमिति मत्वा तै-र्गृहीतो दण्डपाशिकैः । आस्थानसन्निषण्णस्य, राज्ञस्तैरुपदर्शितः ॥३८|| तेनाभाणि यथा विप्र!, किमु युक्तं तवेदृशम् । अमायी कथयामास, राज्ञ: सत्यं स्वमाशयम् ॥३९।। तत: सञ्जातकारुण्यो, राजा तुष्टस्तदार्जवात् । अवादीत्तं द्विजं मुग्धं, वरं वृणु यथेप्सितम् ॥४०॥ स प्राहालोच्य याचिष्ये, राजाहालोचयस्व भोः । गत्वैकान्ते ततश्चैव-मारब्धश्चिन्तितुं यथा ॥४१॥ राजा तुष्टो ददात्यद्य, द्रव्यं मे तावदीप्सितम् । माषद्वयेन किं कार्य?, याचेऽहं माषपञ्चकम् ॥४२।। नालं ताम्बूलमूल्येऽपि, नूनं तन्मे भविष्यति । दशमाषांस्ततो याचे, तेऽपि वस्त्राद्यसाधका: ॥४३॥ मार्गयामि शतं नालं, तदप्याभरणाय मे । बन्धुवर्गसमेतस्य, सहस्रोऽपि दशायते ॥४४॥ १ BJPC | वस्त्रा-मु.। = वस्त्र J पार्श्वभागे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org