________________
१७८
आचार्य श्रीवर्धमानसूरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
कपिलकेवलिकथा
बभूव नगरी रम्या, रम्यारामविराजिता। कौशाम्बी नाम विख्याता, वत्सादेशसुभूषणा॥१॥ सुमन:सङ्घसंयुक्ता, मेरुचूलेव सुन्दरा । सुप्रतिष्ठा सुवर्णौघ-धारिका शर्मकारिका ॥२॥ जितशत्रुर्महाराज-स्तस्यामासीन्नरोत्तमः । समृद्धोदग्रसत्कोश:, प्रजापालनतत्परः ॥३॥ सम्मत: सर्वकार्येषु, तस्यासीच्च पुरोहितः । काश्यपाह्वः सदाचारो, गुणाधारो गुणिप्रियः ॥४॥ चतुर्दशमहाविद्या-स्थानसागरपारगः । राज्ञा वितीर्णसवृत्ति: सवृत्त: पार्वणेन्दुवत् ॥५॥ भार्या तस्य यशानाम्नी, विशालाक्षी मन:प्रिया। कपिलाह्वस्तयो: पुत्र:, सञ्जज्ञे कान्तलोचनः॥ बालत्वे वर्तमानस्य, कपिलस्य स काश्यप: । विधे: स्वच्छन्दकारित्वा-त्पञ्चत्वं समुपागतः ॥७॥ भूभुजा तत्पदं दत्तम्, तदन्यस्मै द्विजन्मने । ततोऽसावश्वमारूढ, आतपत्रविराजित: ॥८॥ एति गच्छति सानन्दम्, सदलङ्कारधारकः । [यशाया गृहपार्थाच्च, परिवारयुत: सदा ।।९।। अन्यदा तं तदा ऋद्धया, व्रजन्तं तं पुरोहितम् । प्रत्यासन्नं स्वगेहस्य, समालोक्य यशा तत: ॥१०॥ भूतपूर्वां निजांस्फीति, स्मृत्वारोदीत्सुदुःखिता। कपिलेन तत: पृष्टा, मात: किं शोककारणम् ? ॥११॥ सापि सर्वं स्ववृत्तान्तं, कपिलाय न्यवेदयत् । स प्राह किं न मे दत्तं, पदं पैत्र्यं महीभुजा ? ॥१२॥ तयोक्तं पुत्र ! सद्विद्या-हीनैस्तल्लभ्यते न हि । तेन प्रोक्तमधीयेऽहं, सद्विद्यामम्ब! साम्प्रतम् ॥१३॥ ततो यशाब्रवीदेवं, पुत्रवाक्येन रञ्जिता । भवन्तं पाठयिष्यन्ति, नेहवास्तव्यपण्डिता: ॥१४॥ तद्वत्स ! गच्छ वेगेन, श्रावस्ती नगरी यत: । समस्ति तत्र सद्विद्या-महासागरपारगः ॥१५॥ मित्रं तव पितुर्विद्वा-निन्द्रदत्ताभिध: सुधी: । मित्रस्नेहेन सोऽवश्यं भवन्तं, पाठयिष्यति ॥१६॥ श्रुत्वेदं वचनं मातु:, श्रावस्त्यां कपिलो गतः । उपाध्यायस्ततस्तेन, प्रणतो भक्तियोगत: ॥१७॥ निवेदितं यथा तात !, विद्यार्थमहमागतः । तेनोचे सुन्दरं भद्र !, विद्याया: समुपार्जनम् ॥१८॥ विद्याहीना यतो लोके, मानवा: पशुभि: समा। [न शोभन्ते सभामध्ये, हंसौघे इव वायसा: ॥१९॥ तथा चोक्तं
विदया नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विदया भोगकरी यशःसुखकरी विदया गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विदया परा देवता, विदया राजसु पूजिता न हि धनं, विदयाविहीनः पशुः ॥२०॥ किं तेन जातु जातेन, यो न विद्वान्न धार्मिकः । तया गवा हि किं कृत्यम्, या न धेनुर्न गर्भिणी ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org