________________
अधिकार ५ / श्लोक १२५-१२९ / सन्तोषमहिमा
१७७
इदानीमसन्तुष्टानामिहैव दुःखपरम्परामुपदर्शयन् श्लोकद्वयमाह
कुटुम्बककृते धाव-नितश्चेतश्च सन्ततम् । कि कृतं ? किं करिष्यामि?, किं करोमीति ? चिन्तयन् ॥१२७॥ खिद्यते प्रत्यहं प्राणी, बह्वाशापाशपाशितः । -वाञ्छाविच्छेदजं सौख्यं, स्वप्नेप्येष न विन्दति ॥१२८॥
कुटुम्बककृते गृहनिमित्तं धावन्पर्यटन्नितश्चेतश्च यतस्तत: सन्ततमनवरतं, किं कृतमित्यतीतकाले, किं करिष्यामीति भाविकाले, किं करोमीति वर्तमाने च चिन्तयन् वितर्कयन् ॥१२७।।
खिद्यते क्लिश्यते प्रत्यहमनुदिनं प्राणी जन्तु: बह्वाशापाशपाशित: प्रभूतमनोरथबन्धनबद्धो वाञ्छाविच्छेदजमिच्छाविनिवृत्तिजं सौख्यं शर्म स्वप्नेऽपि सुप्तजागरावस्थायामप्येष प्राणी न विन्दति न लभते ॥१२८॥ अत्रैवार्थे दृष्टान्तद्वयमाह
असन्तोषो हि दोषाय, सन्तोष: सुखहेतवे। कपिलो ज्ञातमत्रार्थे, पिङ्गला च पणाङ्गना ॥१२९॥
असन्तोषोऽपरापरवस्तुसस्पृहता दोषाय दूषणहेतवे, सन्तोषो निरीहता सुखहेतवे शर्मनिमित्तं, कपिल: पुरोहितपुत्रो ज्ञातं निदर्शनमत्रार्थे सन्तोषसुखविषये, पिङ्गला च पिङ्गलाभिधाना च पणाङ्गना पणो मूल्यं तत्प्रधानाङ्गना पणाङ्गना मूल्यभोग्या वेश्येत्यर्थः ॥१२९॥ ज्ञाते च यथाक्रममिमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org