SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७६ आचार्य श्रीवर्धमानसूरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके ___ यद्वा तद्वा यदेव तदेव सुन्दरासुन्दरमित्यर्थः, जलं पानीयं येषां सन्तोषतृप्तानां यद्वा तद्वा च भोजनं यदेव तदेव मनोरमामनोरममित्यर्थः भोजनमभ्यवहार्यम्, आसनं पट्टपीठकादि, शय्यतेऽस्मिन्निति शयनं सर्वाङ्गीणशय्या, यानं वेसरादि, जायते भवति सुखकारणं शर्मनिबन्धनमिति ॥१२३॥ तेषां सन्तोषिणां दूरतरं दवीयस्तरं दु:खमसातं, सुखं च सातं च निकटस्थितं समीपवर्ति, कुत एतदित्याह-यद्यस्मात्कारणात्सन्तोषसाराणि वाञ्छाविच्छेदप्रधानानि सुखानि सातानि जगदुरुक्तवन्तो जिना: केवलिन इति तथा च जइ जत्थ व तत्थ व जह व ! तह व हे हियय ! निच्छुइं कुणसि । ता दुक्कह तुह जम्मंतरेवि दुक्खं चिय न होइ ॥१॥॥१२४॥ साम्प्रतं समस्तविशालवस्तूनां मध्ये नि:स्पृहाणां विशालत्वमुपदर्शयन्नाह न च पृथ्वी तथा पृथ्वी, स्वयम्भूरमणोऽपि वा । ब्रह्माण्डमपि नो तादृ-ग्यादृशो नि:स्पृहो जनः ॥१२५॥ न च नैव पृथ्वी वसुन्धरा तथा सुसन्तुष्टवत्पृथ्वी विस्तीर्णा, स्वयम्भूरमणोऽपि वा समस्तसमुद्रपर्यन्तवर्तिसमुद्रो वा अपिवाशब्दौ समुच्चयार्थी, ब्रह्माण्डमपि जगदुत्पत्तिकारणमपि नो तादृग् न तादृशं यादृशो यद्विधो नि:स्पृहो निरभिलाषो जनो लोक इति ॥१२५।। इदानीं सन्तोषिण ऐहिकसुखमाह- . कृतं शेषगुणैस्ताव-त्सन्तुष्टस्येह देहिनः । एतावतैव पर्याप्तं, यदधीनो न कस्यचित् ॥१२६।। कृतं परिपूर्णं शेषगुणैरन्यगुणैस्तावदिति क्रमे, सन्तुष्टस्य निरीहस्येह जगति देहिनः प्राणिन:, एतावतैवामुनैव पर्याप्तं कृतं, यद्यस्मात्कारणादधीन आयत्तो न कस्यचिन्न कस्यापीति ॥१२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy