________________
अधिकार ५ / श्लोक ११७-१२४ / सन्तोषमहिमा
१७५
ननु कथं धनं विना सन्तोषवतां सुखं भवतीत्याह
सन्तोषामृततृप्तानां, यत्तेषां सुखमुत्तमम् । कुतस्तद्धनलुब्धानां, दिवारात्रौ च धावताम् ॥१२०॥
सन्तोषामृततृप्तानां सन्तोषपीयूषप्रीणितानां यदित्यनाख्येयं तेषां सन्तोषवतां सुखं शर्मोत्तमं प्रधानं भवति, कुत: ? न कुतोऽपीत्यर्थ: तदिति सुखं धनलुब्धानामर्थगृद्धिमतां दिवारात्रौ वा रात्रिन्दिवं च धावतां प्रसर्पतामिति ॥१२०॥
साम्प्रतं यद्वशेन सत्त्वा: सुखिनो भवन्ति तं सन्तोषं नमस्कुर्वन्नाह
दुःखदारुकुठाराय, बह्वाशापाशनाशिने। निःशेषसुखमूलाय, सन्तोषाय नमो नमः ॥१२१॥
दुःखदारुकुठारायेत्यशर्मदारुविदारणपरशवे, बह्वाशापाशनाशिने प्रभूत-वाञ्छाबन्धनविनाशकाय, नि:शेषसुखमूलाय समस्तशर्मकारणाय सन्तोषाय सन्तुष्टये नमो नमोऽतिशयेन नमस्कारोऽस्तु ।।१२१।।
इह लोक एव सन्तोषफलमाह
यद्दीनानि न जल्पन्ति, यत्सेवां नैव कुर्वते । यद्गुरुत्वं ययुर्लोकाः सन्तोषस्तत्र कारणम् ॥१२२॥
यदिति भाषायां, दीनानि तुच्छानि न नैव जल्पन्ति भाषन्ते, यत्सेवां परोपसर्पणलक्षणां न कुर्वते न विदधति, यद्गुरुत्वं महत्त्वं ययुर्गता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च लोका जना: सन्तोषो नि:स्पृहत्वंतत्र महत्त्वगमने कारणंबीजमिति ॥१२२॥
साम्प्रतं सन्तोषवतां सर्वमपि सुखायेत्युपदर्शयन् श्लोकद्वयमाह
यद्वा तद्वा जलं येषां, यद्वा तद्वा च भोजनम् । आसनं शयनं यानं, जायते सुखकारणम् ॥१२३।। तेषां दूरतरं दुःखं, सुखं च निकटस्थितम् । यत: सन्तोषसाराणि, सुखानि जगदुर्जिनाः ॥१२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org