SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७४ आचार्य श्रीवर्धमानसूरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके सन्तोषाधिकारः ५ सन्तोषवद्भिरेव सद्भिः परोपकारो विधीयत इत्यतः परोपकारसमनन्तरं सन्तोषाधिकार उच्यते तत्र सन्तोषवत: प्रशंसयन्नाह सर्वतोऽपि प्रसर्पन्ती, तृष्णावल्ली निरर्गला। यैः सन्तोषासिना छिन्ना, त एव सुखिनो जनाः ॥११७॥ सर्वतोऽपि समन्ततोऽपि प्रसर्पन्ती विसर्पन्ती तृष्णावल्ली वाञ्छावल्लरी निरर्गला अनिवारितप्रसरा यै: कैश्चन महानुभावै: सन्तोषासिना वाञ्छाविच्छेदिखशन छिन्ना द्विधा कृता त एव नान्ये सुखिन: शर्मभाजो जना लोका इति ॥११७॥ न केवलं सन्तोषवन्त: सन्त: सुखिनो भवन्ति, राजादिष्वपि ते नि:स्पृहाश्चेत्युपदर्शयत्राह नि:स्पृहस्य तृणं राजा, तृणं शक्रस्तृणं धनी। काञ्चनोऽपि तृणं मेरु-र्धनदोऽपि तृणायते ॥११८॥ नि:स्पृहस्य गतलोभस्य तृणं वीरुणादि राजा नरेश्वर: तृणं शक्रो देवराट्, तृणं धनी धनवान्, तथा काञ्चनोऽपि स्वर्णमयोऽपि तृणं मेरुर्मन्दरो, धनदोऽपि समस्तनिधानाधिपतिरपि तृणायते तृणवदाचरति नि:स्पृहं प्रतीति गम्यते ॥११८॥ न केवलं सन्तुष्ट इह लोक एव सुखी, संसारोऽपि तस्य कतिपयभवभाव्येवेति दर्शयन्नाह अनाद्यनन्तसंसार-मार्गस्तस्य सुखोत्तरः । वामेतरकरे यस्य, सन्तोष: सम्बलं वरम् ॥११९।। न विद्यते आदिर्यस्य सः तथा न विद्यतेऽन्तो यस्य, सोऽनाद्यनन्त:- स चासौ संसारमार्गश्चानाद्यनिधनभवपन्था: तस्य सन्तोषवत: सुखोत्तर: सुलझ्यो, वामेतरकरे दक्षिणबाहौ यस्य कस्यापि सन्तोष: सन्तुष्टता सम्बलं पथ्यदनं वरं प्रधानमिति ॥११९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy