________________
१७२
आचार्य श्रीवर्धमानसूरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
भुक्ता भोगास्तया सार्धंजाता योग्या: सुता मम । सम्पालित: सुखेनैव, चिरं कालं गृहाश्रमः॥१८९।। आयाता: सूरयस्तत्र, श्रुतसागरनामका: । धर्मं श्रुत्वा गृहीता च', प्रव्रज्येयं तदन्तिके ॥१९०॥ अधीतो भूरिसिद्धान्त:, सुष्ठ तप्तं तपश्चिरम् । सञ्जातमवधिज्ञानं, लब्धिश्चाकाशगामिनी ॥१९१।। दृष्टश्च ज्ञानसदृष्ट्या, जातो हस्तितया भवान् । समायातश्च तेनाहं, त्वत्प्रतिबोधहेतवे ॥१९२॥ तदहो साम्प्रतं हस्तिन्, ! कोपं मुञ्चस्व सर्वथा । प्रतिपद्यस्व सद्धर्मं, तूर्णं स्वहितमाचर ॥१९३॥ श्रुत्वेदं स गजस्तत्र, जातो जातिस्मर: क्षणात् । ततस्तस्य मुने: पार्श्वे, श्रावकत्वं प्रपन्नवान् ॥१९४॥ ततोऽसौ सुमुनि: सम्यग, बोधयित्वा गजं तकम्। जगाम निजके स्थाने, कालेन च शिवालये॥१९५॥ गजोऽपि श्रावकं धर्मं, पालयित्वा चिरं तत: । पर्यन्तेऽनशनं कृत्वा, मृत्वा सौधर्मनामनि ॥१९६॥ देवलोके सुरो जातो, महातेजा महर्द्धिकः । ततश्च्युत्त्वा भवानत्र, नरचन्द्रो नृपोऽजनि ॥१९७॥ श्रुत्वेदं सूरिसद्वाक्यं, भूपतिर्मूर्छित: क्षणम् । सस्मार पूर्वजां जाति, शुभभावानुभावत: ॥१९८॥ तत: सूरिमुवाचैवं, संवेगोधुरया गिरा । भदन्ताहं निजे राज्ये, सुस्थं कृत्वा त्वदन्तिके ॥१९९।। सर्वक्लेशहरी दीक्षां, गृहीष्यामि मुनीश्वर ! । एवमुक्त्वा गतो राजा, स्वगेहे सपरिच्छदः ॥२०॥ ततो राज्ये सुसेनाख्यं, निजपुत्रं न्यवेशयत् । कृत्वाऽन्यदपि यत्कृत्यम्, दत्त्वा दानं यथेप्सितम्।२०१॥ कारयित्वा महापूजां, सर्वेषु जिनवेश्मसु । वस्त्रपात्रादिभि: सम्य-क्प्रतिलाभ्य मुनीनृपः ॥२०२।। सूरिणामन्तिके 'भूत्वा, गत्वा संविग्नमानस: । जग्राह विधिना दीक्षां, सर्वकर्मविमोचिनीम् ॥२०३|| ततो गीतार्थसत्साधु-समीपे शुभभावत: । शिक्षिताः द्विविधा शिक्षा, नरचन्द्रसुसाधुना ॥२०४|| पालित: सुचिरं शुद्ध:, संयमस्तपसा सह । सावशेषीकृतं कर्म, संसारश्च लघूकृतः ॥२०५॥ पर्यन्ते विधिना मृत्वा, सञ्जातोऽनुत्तरे सुरः । ततश्च्युत्त्वा विदेहेऽसौ, व्रतं लात्वा शिवं गतः ॥२०६।। चरितमिदमुदारं सर्वलोकैकसारम्, नरपतिनरचन्द्रस्याद्भुतं भव्यलोका: ! 'त्रिभुवनजनतानां दत्तमोदं निशम्य, कुरुत निजकशक्त्या , सर्वलोकोपकारम् ।।२०७।।
इति श्रीनरचंन्द्रस्य कथानकं परिसमाप्तम्
१ मे प्र"BJPC |R BJPC । तत्र-मु. ॥ ३ त्रिभुवनजनितानन्दमोदं-BJPC ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org