________________
अधिकार ४ / श्लोक ११४ / नरचन्द्रकथा
१७१
चतुर्ज्ञानसुविज्ञात-सर्वविज्ञेयविस्तराः । बहुशिष्यसमायुक्ता, भव्याम्भोरुहभास्कराः ॥१६३।। तदागमं समाकर्ण्य, वन्दनार्थं बहुर्जनः । पुरमध्याद्विनिष्क्रान्तो, हेलया भक्तिनिर्भरः ॥१६॥ राजाप्यागमनं ज्ञात्वा, सूरीणां ज्ञानशालिनाम् । जगाम वन्दनाद्यर्थं, समं सामन्तमन्त्रिभिः ॥१६५।। अभिवन्द्य यथौचित्यं, सूरीनन्यमुनींस्तथा। निषण्णश्चोचिते स्थाने, तत: सूरिभिरञ्जसा ॥१६६॥ गम्भीरधीरनादेन,प्रारब्धा धर्मदेशना। मिथ्यात्वविततध्वान्त-ध्वंसनैकरविप्रभा ॥१६७॥
भो भो भव्या ! इमे जीवाः, सर्वेऽपि सुखलिप्सवः ।
सुखं च धर्मतस्तस्मा-द्धर्मे यत्नो विधीयताम् ॥१६८।। धर्मस्तु स एवेह, य: सर्वज्ञैः प्ररूपितः । अहिंसादिगुणाधारः, सार: सर्वजगद्धितः ॥१६९॥ इत्याद्यनेकधा धर्म-माचक्षाणं मुनीश्वरम् । पप्रच्छावसरं प्राप्य, नरचन्द्रो नरेश्वरः ॥१७०॥ भगवन् ! किं मयाकारि, शुभं कर्मान्यजन्मनि। चिन्ताक्रान्ता ममाशेषा, येन पूर्णा मनोरथाः ॥१७॥ सूरि: प्राह महाराज!, श्रूयतां सावधानत: । त्वमासीर्भो नराधीश !, कुञ्जर: पूर्वजन्मनि ॥१७२।। विन्ध्याटव्यांसुभद्राख्य-श्चतुर्दन्तः सितप्रभः । सुरूपो भद्रजातीयो, हस्तियूथस्य नायकः ।। अन्यदा च त्वया दृष्टः, साधुर्द्रष्टव्यदर्शन: । अवधिज्ञानसम्पन्नो, नभोगामी विहङ्गवत् ॥१७४|| ततस्त्वं धावितो वेगा-तं प्रत्यारुष्टमानस: । गतस्तूर्णं तदासन्ने, सम्यगालोकितो मुनिः ॥१७५।। ततस्तद्दर्शनादेव, कोपावेशं विमुक्तवान् । स्तम्भित इव सन्मन्त्रैः, स्थितस्तस्याग्रतो मुनेः ॥१७६॥ ततस्त्वं साधुना प्रोक्तो, गम्भीरोदारया गिरा। अहो पूर्वभवः किं ते, विस्मृतो वरकुञ्जर ! ?॥१७७॥ वाणिज्यं वा त्वयाकारि, मया सार्धं तदा गज'!। अथ त्वं धावितोभद्र!, दूरं रुष्टो ममोपरि॥१७८॥ यदि ते विस्मृतं सर्वं, तदाकर्णय कथ्यते । त्वं चाहं च वरे द्वीपे, धातकीखण्डनामनि।१७९॥ पुरे राजपुरे हस्तिन् ! द्वावप्यावां वयस्यकौ । अभवाव वणिक्पुत्रौ, स्नेहवन्तौ परस्परम् ॥१८०॥ कृतवन्तौ सहैवावां, वाणिज्यं द्रविणार्थिनौ । वञ्चितोऽहं त्वया द्रव्य-लाभेनानेकधा तदा ॥१८॥ तेन त्वं वञ्चनादोषा-न्मृत्वा जातोऽसि कुञ्जरः । कृतं हि कुत्सितं कर्म, न मोघं जायते यतः॥१८२।। येन ते परमा प्रीति-स्तदाभवन्ममोपरि । मामालोक्य तव क्रोध:, प्रशान्तस्तेन हेतुना ॥१८॥ सहसा येन दृष्टेन, कोपावेश: प्रशाम्यति । वर्धते प्रीतिरत्यर्थं, पूर्वबन्धुः स तस्य भोः ॥१८४|| सहसा येन दृष्टेन, कोपावेश: प्रवर्धते । हीयते प्रीतिरत्यर्थं, पूर्वशत्रुः स तस्य हि ॥१८५।। अहं पुनस्तदाभूवं, सदा दानपरायणः । किञ्चित्तनुकषायत्वा-त्प्राञ्जलि: सर्वकर्मसु ॥१८६॥
ततो मृत्वा समुत्पन्न:, पुरे राजपुराभिधे।
श्रेष्ठिनश्चन्दनाख्यस्य, पुत्र: सुन्दरनामकः ॥१८७|| क्रमेण यौवनं प्राप्त:, कामिनीजनमोहनम् । विशालवंशजां कन्यां, विभूत्या परिणीतवान् ॥१८८।। १ जकत् । येन त्वं -BJPC ॥ ? नामोघं - BJC मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org