________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
यद्येवं दीयतां ताव-त्स्वमांसं क्षुधिताय मे । तोल्यते शशको याव - द्यदि चेतसि ते कृपा ॥१३५॥ राज्ञोक्तं गृह्यतां मांसं शशको मुच्यतामयम् । एवमुक्त्वा सहर्षेण नाराचः प्रगुणीकृतः ॥ १३६ ॥ ततः शशकमेकत्र, तत्रारोप्य नरेश्वरः । उत्कृत्योत्कृत्य जङ्घातो, मांसं चिक्षेप सोऽन्यतः ॥ १३७॥ यथा यथा क्षिपत्येष, स्वमांसं तत्र भूपतिः । तथा तथा महाभारः, शशको वर्धतेतराम् ॥१३८॥ एवं तत्र निजं मांस, क्षिपन् राजा मुहुर्मुहुः । सञ्जातो मरणावस्थो, मूर्च्छया पतितः क्षितौ ॥ १३९ ॥ तथापि तेन नो मुक्तं, निजं सत्त्वं मनागपि । महासत्त्वेन वीरेण, परोपकृतिचञ्चुना ॥ १४०॥ ततो विज्ञाय तौ देवौ, राज्ञश्चित्तं सुनिश्चलम् । प्रकटीभूय भाषेते, श्लाघ्यमानौ नरेश्वरम् ॥ १४१ ॥ अहो ते परमौदार्य-महो ते सत्त्वमूर्जितम् । अहो ते भूप ! गाम्भीर्य - महो ते वीर ! वीरता ॥ १४२ ॥ अहो ते निर्मला कीर्ति-स्त्रैलोक्योदरचारिणी । शक्रेणापि सुराध्यक्षम्, यस्त्वं संश्लाध्यसे नृप ! ॥ १४३ ॥ एवं भूपगुणान् स्तुत्वा, कथयामासतुस्तकौ । राज्ञः सर्वं स्ववृत्तान्तं शक्रश्लाघादिकं मुदा ॥ १४४॥ ततस्तोषेण तौ देवौ, हारं त्रैलोक्यसुन्दरम्। भूपाय दातुमारब्धौ न चासौ तं गृहीतवान् ॥ १४५ ॥ ततस्ताभ्यां नृपः प्रोक्तो, भो भूप ! क्षमयस्व नौ । इयच्चिरं यदावाभ्यां, विना दोषं कदर्थितः ॥१४६॥ गच्छ राजन्निजे राज्ये, पालयस्व निजाः प्रजाः । जीव नन्द चिरं कालं, दुर्लभास्त्वादृशा जनाः ॥ १४७॥ एवमुक्त्वा गतौ देवौ, स्वस्थानं तुष्टमानसौ । स्ववेश्मागत्य राजापि, प्राज्यं राज्यमपालयत् ॥१४८॥ अनेका वरभूपाल-कन्यकाः परिणीतवान् । भुक्ता भोगाश्चिरं कालं, जाताः पुत्रा मनोहराः ॥ १४९ ॥ अन्यदा नरचन्द्राय, समानयनहेतवे । प्रेषिता नरसिंहेन, पित्रामात्या महत्तराः ॥ १५०॥ आगत्य नरचन्द्रस्य, पितुर्वाक्यं निवेदितम् । यथा भो जनकेन त्वं, समाहूतोऽसि सादरम् ॥ १५१ ॥ तद्राजन् ! गम्यतां तत्र, पितुर्वाक्यं विधीयताम् । ततश्च नरचन्द्रोऽपि, निजे राज्ये निजं सुतम् ॥१५२॥ निवेश्य नरधर्माख्यं, सर्वलोकस्य संगतम् । संभाष्य पौरवं लोकं, सन्मान्य च यथोचितम् ॥१५३॥ कृत्वा सामग्रिकां सर्वां, सान्तः पुरो - नरेश्वरः । कुर्वन् सर्वजनानन्दं, समायातः पितुः पुरम् || १५४|| आनन्दितस्ततो राजा, सर्वः परिजनस्तथा । नरचन्द्रे समायाते, जीमूत इव केकिनः ॥ १५५ ॥ ततो राजा निजे राज्ये, नरसिंहो निवेश्य तम् । दत्त्वा धर्मे धनं भूरि, कृत्वा सर्वं यथोचितम् ॥१५६॥ धर्मार्थी स्वक्रमायातं, वनवासमशिश्रियतु । नरचन्द्रोऽपि सञ्जातः प्रजानन्दो महानृपः ॥ १५७॥ प्रभूता साधिता पृथ्वी, प्रभूता जज्ञिरे गजा: । प्रभूता वाजिनो जाता:, प्रभूताः स्यन्दनास्तथा ॥ १५८॥ बभूव भूरिपादातं, द्रव्यं जातं प्रभूतकम् । शत्रवो मित्रतां नीता, गुणग्राही जनः कृतः ॥१५९॥ उल्लसिता सिता कीर्ति-र्विश्वविश्वाभिगामिनी । पूरिता भूरिदानेन, समस्तार्थिमनोरथाः || १६०|| एवं प्रकुर्वता तेन, नरचन्द्रेण भूभुजा । मध्ये परोपकर्तॄणां स्वा रेखा धुरि वापिता ॥१६१॥ अन्या बहिरुद्याने चम्पकामोदनामनि ।
शीलसुन्दरनामान: समायाता मुनीश्वराः ॥ १६२॥
For Private & Personal Use Only
१७०
Jain Education International
www.jainelibrary.org