________________
अधिकार ४ / श्लोक ११४ / नरचन्द्रकथा
१६९
अहं हि सूरराजस्य, सूरसेनाभिधः सुतः।
श्रीमच्चन्द्रपुरस्वामी, सुप्रतीतो रिपुस्तव ॥११३।। तावकीनैर्महादण्डै-निर्जितो लूषिता पुरी । सर्वं मम हृतं राज्यं, पुरमन्त:पुरं तथा ॥११४॥ वियोजित: स्वबन्धुभ्यो, भ्रंशितो राज्यसम्पदः । एकाक्येव चिरं भ्रान्तो, महीपीठे सुदुःखितः ॥११५।। भ्राम्यता च मयाऽश्रावि, कीर्तिर्दानोद्भवा तव । ततो मया व्यचिन्त्येवं, किमन्यैस्तुच्छकैर्जनैः ॥११६॥ सेवितैर्याचितैर्वापि, कृपणैर्द्रव्यलोलुपैः । याचिता अपि ते दद्यु:, शतं पञ्चशतानि वा ॥११७॥ तदौदार्यगुणोपेतं, नरचन्द्रनरेश्वरम् । दातारमीप्सितार्थस्य, शत्रुमप्याश्रयाम्यहम् ॥११८॥ एवं विचिन्त्य राजेन्द्र!, समायातस्त्वदन्तिके। न कार्य: प्रार्थनाभङ्गः, किंञ्चित्तुच्छं प्रयच्छ मे॥११९॥ भूपति प्राह याचस्व, यद्भवत: प्रतिभासते । स प्राह दीयतां तर्हि, राज्यं राजेन्द्र ! मे निजम् ॥१२०॥ ततश्च नरचन्द्रेण, भूभुजोदारचेतसा । तृणाय मन्यमानेन, तस्मै राज्यमदीयत ॥१२१॥
यत:- कियती पञ्चसहस्री, कियती लक्षा च कोटिरपि कियती।
अनुकम्पामयमनसां, सा रत्नवती वसुमती कियती ? ॥१२२॥ किमत्र चित्रं यत्सन्तः, परानुम्रहकारिणः ।
न हि स्वदेहशान्त्यर्थं, जायन्ते चन्दनद्रुमाः ॥१२३॥ ततो राजा विनिष्क्रान्त:, पुरात्खड्गसहायकः । जगाम बहिरुद्याने, सानन्दो दैन्यवर्जितः ॥१२४॥ तत्रैवं चिन्तयामास, विशालोदारचेतसा । परोपकारतानिष्ठो, महेच्छ: स्वच्छमानस: ॥१२५॥ तद्यथा- पातालान्न विमोचितो बत बलिभृत्युनं नीतो क्षयम् ।
नो मृष्टं शशलाञ्छनस्य मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धरां विधृत्य न कृतो भारापहारः क्षणं,
चेतः सत्पुरुषाभिमानकलुपं मिथ्यैव किं खिदयसे ? ॥१२६॥ यावदेवं नराधीश: सन्तिष्ठति विचिन्तयन् । तावच्छशकव्याधस्य, रूपद्वयं विकुळ स: ॥१२७॥ देवो द्वितीयकस्तूर्णं, समायातो नृपान्तिकम् । तत्रासौ शशक: शीघ्रं, राज्ञ: पादान्तमाश्रितः ।।१२८॥ राजन् ! मां रक्ष रक्षेति, भक्ष्यमाणो भयातुरः । त्वमेवात्र मम त्राण-मत्राणत्राणकारकः ॥१२९।। तत: प्रच्छादित: स्वीय-वस्त्रे तेन स भूभुजा । आयातस्तद्नु व्याधो, बिभ्राण: सशरं धनुः ॥१३०॥ भूपस्य पुरतो भूत्वा, बभाणैवं स्फुटाक्षरैः । शशकोऽयं महाराज!, लब्धोऽत्यन्तक्षुधालुना ॥१३१॥ तदर्पयस्व येनैनं, भक्षयामि बुभुक्षित: । राजाह किं तवानेन, याचस्व द्रव्यमीप्सितम् ॥१३२॥ द्रव्येण लप्स्यसे मांस-मन्यद्वा वस्तु वाञ्छितम् । व्याध: प्रोवाच मे राज-ननेनैव प्रयोजनम् ॥१३३॥ राजाह मे वराकोऽयं, शशक: शरणागत: । तदेनं नार्पयाम्येव, किञ्चिदन्यत्प्रयाच्यताम् ॥१३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org