________________
१६८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
लात्वा स्वर्णं स्वके स्थाने, तत: सर्वेऽपि ते गताः ।
कुमारोऽपि महीं भ्राम्यन्, पुरे भोगपुरे गतः ।।८७॥ दृष्ट्वा तत्र वरोद्यानं, नानावृक्षसमाकुलम् । विश्रामहेतवे तत्र, प्रविष्टो हृष्टमानस: ॥८८॥ उद्यानदीर्घिकानीरे, स्नात्वा पीत्वा च तज्जलम् । अशोकवरवृक्षस्य, सच्छायायां स सुप्तवान् ।।८९॥ इतश्चापुत्रको राजा, मृतस्तत्र महापुरे । ततश्च पञ्च दिव्यानि, मन्त्रिभिरभिषेचिरे ॥९०|| ततस्तानि चिरं भ्रान्त्वा, तत्र सर्वत्र पत्तने । निर्गत्य काननस्थस्य, कुमारस्यान्तिकं ययुः ॥११॥ ततो राज्याभिषेकेणा-भिषिक्त: कुमरस्तकै: । हस्तिस्कन्धसमारूढो, महा पुरमाविशत् ॥९२।। जातो राजा महाकोश:, प्रचण्डश्चण्डशासन: । ख्यातकीर्तिः प्रजानन्दः, साधिताशेषभूतल: ॥९३।। अन्यदा ये पुरा दृष्टा, धातुवादकमानवा: । भूपेन ते समागत्य, नत्वा भूपं निषेदिरे ॥९४|| तत: सन्मानिता राज्ञा, ताम्बूलादिप्रदानत: । पृष्ट्वा च कुशलोदन्तं भोजिता निजमन्दिरे ॥१५॥ ततो दत्तं धनं भूरि, प्रासादाश्च मनोहरा: । उक्ताश्च मत्समीपे भोः, सन्तिष्ठत निराकुला: ॥९६।। श्रुत्वेदं तेऽपि सानन्दा-स्तस्थुर्विलसतो धनम् । पूजिता राजलोकेन, भूपतेरपि वल्लभा: ॥१७॥ अन्यदा भणिता' राज्ञा, भूरिद्रव्यार्थिना सता । यथा भो मम वाक्येन, स्वर्णसिद्धिर्विधीयताम् ॥९८॥ युष्माकं सर्वमेवात्र, साहाय्यं प्रकरोम्यहम् । क्रियतां सर्वसामग्री, पात्यतां भूरि काञ्चनम् ॥९९।। ततस्तेऽपि विधायाशु, सामग्रीमखिलामपि । स्वर्णसिद्धिं प्रयत्नेन, प्रवृत्ता कर्तुमञ्जसा ॥१०॥ राज्ञः पुण्यानुभावेन, पातितं भूरि काञ्चनम् । तुष्टो राजा ततश्चैत-च्चिन्तयामास मानसे ॥१०१।। वाञ्छितार्थप्रदानेन, विधाय निरणां महीम् । करोमि सुस्थितं लोकं, साम्प्रतं सर्वमेव हि ॥१०२।। विचिन्त्यैवं ततो राजा, समाहूय स्वमन्त्रिण: । बभाण भणितिप्रौढः, प्रौढवाक्यैरिदं मुदा ॥१०३।। अहोऽहो मन्त्रिण: सर्वं, समाहूय जनं तत: । पृच्छयतां येन यावच्च, दातव्यं विद्यते धनम् ।।१०४।। तत्तावद्दीयतां तस्मै, क्रियतां निरणां महीम् । ततस्तूर्णं तथा चक्रे, मन्त्रिभी राजशासनम् ॥१०५।। सर्वेषु चैव देशेषु, सर्वग्रामपुरादिषु । दत्तं यथेप्सितं द्रव्यं, सर्वलोकाय भूभुजा ।।१०६।। सर्वपाखण्डिलोकानां, सर्वदीनादिदेहिनाम् । चकारोपकृतिं राजा, वाञ्छातीतं धनं ददन् ।।१०७|| एवं च कुर्वतो राज्ञो, लोकं सर्वत्र सुस्थितम् । गत: कालो बहुर्जाता, कीर्तिः शुभ्रा जगत्त्रये ॥१०८॥ अन्यदा स्वर्गनाथेन, स्वर्गे स्वर्गीकसां पुरः । सदौदार्यगुणो राज्ञो, वारंवारं प्रशंसितः ॥१०९॥ यथा भो भो: सुरा: ! श्रीमा-न्नरचन्द्रो नरेश्वरः । सर्वदा सर्वलोकाय, ददात्येव हि वाञ्छितम् ॥११०॥ वाक्यमेतत्सुरेन्द्रस्य, द्वावश्रद्दधतौ सुरौ । परीक्षार्थं समायातौ, राज्ञो भोगपुरं पुरम् ॥१११॥ तत्रैक: शक्ररूपेण, जगाम नृपसन्निधौ । जगादेवं स्फुटैर्वाक्य-नराधीशं कृताञ्जलि: ॥११२॥
१ भाणिते-BJPC
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org