________________
अधिकार ४ / लोक ११४ / नरचन्द्रकथा
1
ततः समानताम्बूलं, तुल्याभरणभूषणम् । समानवस्त्रसत्पुष्पं, तुल्ययानादिवाहनम् ॥ ५९ ॥ तुल्यकर्पूरसन्मिश्र-श्रीखण्डादिविलेपनम् । कारयित्वा जनं सर्वं कुमारो हृष्टमानसः ॥ ६० ॥ विहितस्फारशृङ्गारः, पुरमध्याद्विनिर्ययौ । स्थाने स्थाने इमा: श्रव्याः, शृण्वन् वाचो जनोदिताः ॥ ६१॥ धन्योऽयं पुण्यवानेष, श्लाघ्यं जन्मास्य गण्यते । येनेप्सितार्थदानेन, सर्वोऽयं तोषितो जनः ॥६२॥ ततो गत्वा वरोद्याने, पुष्पसुन्दरनामनि । कुमारः सह लोकेन, प्रमोदभरनिर्भरः ||६३|| दीनानाथादिलोकेभ्यो, याचकादिजनाय च । वाञ्छातीतं ददद्रव्यम्, संक्रीडति यथेच्छया ॥ ६४ ॥ एवमर्थव्ययं वीक्ष्य, भाण्डागारनियुक्तकः । राज्ञे निवेदयामास ? सर्वं पुत्रविजृम्भितम् ॥६५॥ ददाति ते महाराज !, पुत्रो दानमनर्गलम् । सहस्रलक्षकोटीभि र्दीनादिभ्यः कुबेरवत् ॥ ६६ ॥ कतिचिद्वासरानेष, यद्येवं देव ! दास्यते । तदा नूनं महाराज !, रिक्तः कोशो भविष्यति ॥ ६७॥ श्रुत्वेदं वचनं राजा, कोशक्षयनिवेदकम् । दूमितो मानसे बाढं, कुमारं प्रति रंहसा ||६८॥ आहूय निष्ठुरैर्वाक्यै - - रुपालब्ध: कुमारकः । मूढबुद्धिर्न जानासि धनानामर्जने श्रमम् ॥ ६९ ॥ किं दुर्गे हस्तिनो देशो, वाजिनो वार्तिसुन्दराः । इयद्वित्तव्ययात्सिद्धम्, यत्ते तन्मे निवेदय ॥७०॥ कुमारोऽपि समाकर्ण्य, सोपालम्भं वचः पितुः । समुत्थाय समायातो, दुःखितो निजमन्दिरम् ॥७१॥ तत्रापि शयने सुप्तो, रात्रौ चिन्तितवानसौ । मानभंङ्गे हि यदु:खम्, तन्मृत्योरतिरिच्यते ॥७२॥ यतः-मरणे स्यात्क्षणं दुःख- माजन्मं मानखण्डने । विषहन्ते कथं नाम, मानिनो मानखण्डनम् ॥७३॥ सह्यतां मानभङ्गो हि, साधुभिर्मोक्षकाङ्क्षिभि: । मानिभिः सह्यते नैव, तद्धना एव येन ते ||७४|| सह्यते मानभङ्गो हि, निर्विज्ञानैर्नपुंसकैः । जन्मभूमिसमासक्तै- र्मण्डलैरिव मानवैः ॥७५॥ इत्यादि चिन्तयित्वाथ, खड्गपाणिर्निरुत्सुकः । रजन्यां निर्ययौ धीर, एकाकी सुविचक्षणः ॥ ७६ ॥ कथानकविशेषेण, पुरे पारेतकाभिधे । सायं सम्प्राप तत्रापि, सुप्तोऽसौ देवमन्दिरे ॥७७॥ अथ निद्राविरामेऽसा-वासन्ने गिरिगह्वरे । वह्निमालोकयामास, ज्वलन्तं मनुजोत्तमः ॥७८॥ किंकारणो भवेदग्निः, कौतुकाक्षिप्तमानसः । समुत्थाय ततो धीरो, ज्वलनाभिमुखं ययौ ॥७९॥ अपश्यद्वामतस्तत्र, धातुवादिजनान् बहून् । ताम्रयोगसमायुक्तान्, भूरिवित्ताभिलाषिणः ||८०|| आर्शीवादं ददौ तेभ्यः, सिद्धिरस्तु समीहिते । स्वागतं तेऽपि जल्पन्तः, कुमाराभिमुखं गताः ॥८१॥ अन्नान्तरे पुण्ययोगेन, सिद्धं स्वर्णमनुत्तरम् । अहो पुण्यवतां योगः, सर्वकल्याणकारणम् ॥८२॥ लावा स्वर्णं ततः प्रोचु-स्ते तुष्टाः कुमरं प्रति । गृहाणेदं महाभाग !, स्वपुण्यैः समुपार्जितम् ||८३ ॥ यतः - एवंविधा समस्तापि, सामग्री हेमसाधिका । सञ्जाता न पुनर्जातं जातरूपं त्वया विना ॥८४॥ ततोऽवोचत्कुमारस्तान्, स्वभावोदारया गिरा । युष्मदीयमिदं स्वर्णं, न ममास्ति प्रयोजनम् ॥८५॥ श्रुत्वेदं विस्मिताः सर्वे, चिन्तां चक्रुः स्वचेतसि । महीनाथसुतः कोऽपि परोपकृतिकारकः ॥८६॥
I
F
Jain Education International
"
For Private & Personal Use Only
१६७
www.jainelibrary.org